________________
नवमोऽरः नियमभङ्गनयः
____ अथ भाव एवासी भेद इष्यते ततो भावाव्यतिरेकाद्भूतत्वात् उभयथापि न पुनर्भूयेत, भूतघटादिवत् आकाशादिवत्, वैयर्थ्यात्, न हि भूत एव भवति, तथासत्यसत्त्वापत्तेः, यदि भूतमेव भवेत्ततस्तदसत् स्यात्, उत्पद्यमानत्वादजातघटवदित्यनिष्टा च सा भेदेषु पृथक् सत्सु भवनाऽन्वय औपचारिक इत्यत्रोच्यते ननु त्वयैव स्वद्रव्ये पृथिव्यादौ घटादिभेदं ब्रुवता तस्यावस्थामात्रं घटादिभेदा इत्युक्तं भवति, यथाऽङ्गुलिर्वक्रीभवतीत्युक्वे औपचारिकत्वं वक्रतायाः नाङ्गुलेः, न हि वक्रत्वमङ्गुलिर्भवति, अनुत्पन्नत्वात् खपुष्पवदिति।
भेदत्वाच्च रूपवत्, यथा घट एव चक्षुरादिग्रहणापदेशविशिष्टत्वाद्रूपं रसो गन्ध इत्यादि भेदेनोच्यते, विज्ञानमात्रस्य तत्र भेदत्वाद्वस्तुनोऽभिन्नत्वादेवं पृथिव्यादिसामान्यभेदाः। __अत उक्तन्यायात् द्रव्यस्य पर्यायानाश्रितत्वाच्च पर्यायप्रवृत्तेः सर्वथाऽनुपत्तिः, एवं विशेषस्वरूपप्रत्यपेक्षायां पूर्व भवनमस्वतन्त्रं पृथग्वा वृत्ति स्यात्ततो निर्मूलत्वादसन् घटः खपुष्पवत्।
नापि स घटः स्वयमेव भावः, विशेषप्रधानपक्षहानेः, नाप्यस्य भावः असत्त्वाविशेषात् खपुष्पवदेवेति पूर्वोक्ताविर्भावादिभेदानुपपत्तिविरोधात्।
___ ननु विशेषः प्रत्यक्षत एवोपलभ्यत इत्यत्रोच्यते दृश्यमानत्वेऽपि यथा दृश्यते तथा तस्याभवनादसत्त्वं दृष्टं यथा मृगतृष्णिकासलिलगन्धर्वनगरादि, मृगतृष्णिकागन्धर्वनगरयोहि