SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ नवमः नियमभङ्गारः यदि भेदप्रधानो भावः कथमसौ भावो भवितुर्भेदस्य क्रियाभेदातिरेकेण स्वरूपमपि प्राप्तुं समर्थः ? अस्वतन्त्रत्वादभवितृत्वादसन् खपुष्पवत्, ततश्च भेत्तव्यस्याभावाद्भेदा अपि न भवितुमर्हन्ति खपुष्पवदिति धर्मधर्मिस्वरूपविरोधः, घटादिभेदाभावः, भेत्तव्याभावाद्गगनोदुम्बरकुसुमवत्, यथा गगनकुसुमादुदुम्बरकुसुममुदुम्बर कुसुमाद्वा गगनकुसुमं भेत्तृभेत्तव्यं वा न तथोपसर्जनप्रधानयोः, ततश्वात्यन्तनिरुपाख्यत्वाच्छून्यत्वापत्तौ स्ववचनादिविरोधा अपि । पृथिवी घटो भवतीत्यत्र निर्धार्यं किं पृथिवी भवति ? उत घटो भवति? उभयं वा भवति? न भवति वेति, तत्र यदि विशेष एव, नास्त्येवेतीदानीमेवोक्तत्वात् कुतः सामान्यस्य प्रधानोपकारिता, अथ पृथिव्यादेरन्वयित्वं प्रवृत्तेर्भवति सत्त्वात् ततश्वोपसर्जनत्वं सामान्यस्य नास्ति स्वतत्त्वव्यापित्वात् भावत्वात् प्रवर्त्तमान त्वाच्च भेदवत्, उभयमिंस्त्वसति भावे भवितरि च यद्यभाव एव भेदोऽप्यनुभूयते, तेनैव भेदेन न भूयेत, अभावत्वात् खपुष्पवत्, न भावो भावो भवति ।
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy