________________
अष्टमोऽरः उभयनियमनयः
३३३ ऽभिधाता पूर्ववर्णजनितबुद्धिपरिपाकादित्येके, सर्वावयवेषु तिरोहिता -भिमतेषु वितत्य व्यवस्थितो बुद्धिसंस्कारपरिपाकसमुदाय इत्यपरे, समुदायात्मा शब्द एक एव, अनेक एव वा प्रत्यायक इत्यपरे किं न एतैः, यदि व्यतिरिक्तो यद्यव्यतिरिक्तोऽन्त्येऽशेषे वाऽभिन्नो भिन्नो वा प्रत्यायकः समुदायोऽवयवा एव वा योऽस्तु सोऽस्तु सर्वथाऽर्थप्रत्यायनात् समुदायः शब्दोऽनवस्थिततर्कत्वात् पुरुषाणाम्, यथोक्तं 'यत्नेनानुमितोऽप्यर्थः' इत्यादि तथा 'हस्तस्पर्शादिवान्धेन" इत्यादि आगममात्रमेतत्।
पदसमूहो वाक्यम्, स चानियतानुपूर्व्यः पदसमूहः, तद्यथादेवदत्त ! गामभ्याजे'ति, कदाचिच्च 'देवदत्त! गामभ्याज शुक्लाम्', इति देवदत्त ! महिषीं गृष्टिं कल्याणीमि',ति 'पात्रमाहर', 'आहर पात्रं सौवर्णश्चे' त्यादि, सर्वागमसमूहात्मकाऽऽर्हतागमो वा वाक्यम्, वाक्यार्थोऽपि तदभिधेयोऽर्थः।
अयश्च शब्दैकदेशत्वात् पर्यवास्तिकः, परिरुपसर्गः समन्तादर्थे; अव गत्यर्थे धातुः समन्ताद्रवति, कोऽसौ? भेदो भावोपसर्जनः, सोऽस्तीति यस्य नयस्य मतिः स पर्यवास्तिकः।।
निर्गमनवाक्यमप्यस्य पहुच्चर इत्यादि।
'दुवालसंगं गणिपिडगमेगं पुरिसं
इति उभयनियमनयः समाप्तः। १. वाक्यपदीयम् काण्डः१ श्लोकः ३४; ४२ २. नन्दिसूत्रम् - ४२