________________
३३२
द्वादशारनयचक्रे
विधिप्रतिषेधयोर्भेदेन प्रत्ययः शब्दार्थसम्बन्धज्ञस्य शब्दप्रयोगादुत्पद्यते सामान्योपसर्जनविशेषशब्दार्थपक्षे वा द्वयोरपि च पक्षयोरुपसर्जनीकृतविशेषणत्वा दानाक्षेपादस्वातन्त्र्यादनभिधानं तुल्यमित्येष विचारः प्रयासार्थः, यथा जातिस्वरूपापोहगुणविशेषणानि पारतन्त्र्यादेव श्रुतगुणभेदाभेदत्वा दानामनाक्षेपः, तथा यथा कथञ्चित्......... स्वातन्त्र्यहेतुत्वादिति।
यदि चार्थान्तरापोहो न भावान्तरमित्यपोहवानर्थः शब्दवाच्यो न भवत्यतो नापोहो विशेषणमिष्टं कथमिदं तर्हि यत् सत् तद्र्व्यं, यद्रव्यं तत्सदिति? उभयशब्दार्थव्युदासानुगृहीतस्य समुदायस्यैकत्वात् संहतशब्दद्वयाभिधेयत्वात्, न तु सदर्थस्य द्रव्यशब्देनाभिधानात् तथार्थान्तरापोहेन विशिष्टं वस्त्वेव सदित्युच्यते यस्मिन् वस्तुन्यपोहः क्रियते तच्च द्रव्यं शब्दार्थो नापोहमात्रमिति, किमुक्तं भवतीति चेदुच्यते यदि द्रव्यं यद्यद्रव्यमर्थान्तरापोहः तद्वांस्त्वर्थः शब्दार्थत्वेन विवक्षितत्वादुच्यत एव, बुद्धिस्थान्वयव्यतिरेकार्थभेदप्रत्ययोत्पत्तिदर्शनादिति, तस्मादनपहृतः पश्चिमदोषो ऽपीत्यलं प्रसङ्गेन।
अत्र च सङ्घातो वर्णपदवाक्यादीनां शब्दार्थ उत्पत्तावभिव्यक्तौ वा, यद्यप्यप्राप्तयोगपयानि पदानि तथापि कार्याल्लोकप्रसिद्धरेव वा व्यवस्था, दृष्टो हि लोके तेषां शब्दानामर्थप्रत्यायनासम्भवादर्थप्रत्यायकस्तत्समुदायः समुदायिभ्योऽन्य इति केचित्, तस्मादेव कार्यात् तेषु तस्य प्रतिदेशं समस्तेषु वा वृत्त्यसम्भवान व्यतिरिक्त इत्यपरे, अन्त्यवर्णे संहृताशेषदेशावयवः समुदायो