________________
अष्टमोऽरः उभयनियमनयः
३३१
तवापि शक्यं वक्तुमपृथश्रुतिदूषणम्, द्रव्याघभावाभावस्य गुणित्वात् सदभावाभावस्य चाश्रितस्य गुणत्वात्, या त्वयोक्तोपपत्तिः सा जातियोगपक्षयोरपि क्रमते, इह तु जातियोगी यस्मिन् वस्तुनि त्वयोक्तापोहनिवृत्तिवत् वर्तेयाताम्, सत्तैव सत्त्ववदिति, शेषस्त्वदुक्तोपपत्तिग्रन्थवत्तुल्यगमो यावच्छब्दद्वयाभिधेयत्वात्।
पश्चिमस्यापि च दोषस्य भाव एव, नाभावः, यदुक्तं जातिमत्पक्षे 'तद्वतो नास्वतन्त्रत्वाद्भेदाजातेरजातितः' इत्यादिदोषजातं तस्याभावोऽन्यापोहपक्षे, साक्षावृत्तेरिति, तन भवति साक्षादवृत्त्यादिदोषजातस्य सतिशयस्योक्तत्वात् सच्छन्दोऽपोहमात्रस्वरूपोपसर्जनं द्रव्यमाह न साक्षादित्यादि सर्वं प्रागुक्तं जातिमद्वदपोहवानित्युपक्रम्य, तत्र दोषा यथा सङ्गतास्तथा प्रतिपादिता इति न पुनर्लिख्यते। __यत्तूक्तमन्यापोहवादिना परं प्रत्याशङ्य ततः 'अद्रव्यत्वाञ्च भेदाच्च' इति कारिका या च तद्भाष्ये लिखिता तव्याख्या नाप्यर्थान्तरापोहो नामेत्यादि यावन्नास्ति सामान्यदोष इत्यपोहपक्षे जातिमत्पक्षगतदोषाभावप्रतिपादनं विशेषदर्शनादिति, वयमत्रोत्तरं ब्रूमः - 'तद्वत्त्वञ्च त्वदुक्तवत्' ननु भावान्तरतैव सामान्यवत्तद्वया वृत्तेरपि, तद्वतोऽन्यप्रत्ययात्मकत्वात् । अयं स्वमते तद्रूपे न सामान्यं न व्यावृत्तिमदिति कुतस्तद्विशिष्टवस्त्वभिधानम्? खपुष्पशेखरविशिष्टवन्ध्यापुत्राभिधानवत्।
अपि च भावान्तराभावान्तरत्वाभ्यां न किञ्चित् प्रयोजनमस्ति किन्तु बुद्धिस्थस्यान्वयव्यतिरेकद्वारेणावधारितस्यार्थस्यानुगुण्येन