________________
३३०
द्वादशारनयचक्रे
सच्छब्देनाभिन्नासत्त्वनिवृत्तिमात्रोपादानात्, यथैव सुकरा हि...... द्रव्यस्य गुणस्य वा तथैव हि ....... सामानाधिकरण्यं न स्यात्, यथा न हि सत्ता द्रव्यं गुणो वा भवति, तथा नहि सदसनिषेधाभावः, किं तर्हि? द्रव्यस्य गुणस्य चा भावाभाक इति, इयं व्याख्या त्वन्मतानुसारिण्येव, आह च
'विभक्तिभेदो नियमाद्गुणगुण्यभिधायिनोः । सामानाधिकरण्यस्य प्रसिद्धिद्रव्यशब्दयोः ॥" इति।
यत्तु सत्तासम्बन्धाभिधानपक्षयोरपृथक्श्रुतिदोषोऽस्ति, नापोह -पक्षे विशेषहेतुसद्भावात्, तत्र हि गुणौ सत्तासम्बन्धी विशेषणत्वात्, तद्वस्तु गुणीत्यतः सामानाधिकरण्याभावो युक्तः, इह त्वन्तरापोहो नासद्भावमात्रमेवोच्यते किं तर्हि? अर्थान्तरापोहेन विशिष्टं वस्त्वेव सदित्युच्यते यस्मिन् वस्तुन्यपोहः क्रियते, तच्च द्रव्यं शब्दार्थो नापोहमात्रम्, स चार्थः सच्छब्देन व्याप्तो न तु साक्षादुक्तः, तद्यथा सच्छब्दः साक्षान द्रव्यायभिधायी, संशयोत्पत्तेः तस्मात् सामानाधिकरण्यं विशेषार्थैः द्रव्यादिशब्दैः सच्छब्दस्य सद्रव्यं सन्गुण इत्यादि वाक्यार्थे युक्तं न पदार्थे ।
यस्मादवयवशब्दार्थाभ्यामन्यः समुदायार्थः तस्य च वाचकौ तौ समुदितौ न विपरीतार्थी-न तु सच्छन्दो द्रव्यार्थमाह न द्रव्यशब्दः सदर्थं कथमिदं तर्हि यत् सत्तद्रव्यं यद्रव्यं तत्सदिति? 'उभयशब्दार्थव्युदासानुगृहीतस्य समुदायार्थस्यैकत्वात्, संहतशब्दद्वयाभिधेयात्, न तु सदर्थस्य द्रव्यशब्देनाभिधानादिति। १. वाक्यपदीयम् काण्डः३श्लोकः ८