________________
अष्टमोऽरः उभयनियमनयः
३२९
तच्छौक्ल्यमेव न स्यात्, अरूपादित्वात्, उत्क्षेपणादिवत्, तस्मात्तेन सहानन्यत्वात् न तदपोहः, ये पुनरन्ये आश्रितादेस्तु गुणादयः ततः तेषामपोहानपोहाभ्यां संशयः, तद्यथा - गुणोऽयमाश्रितत्वादित्याश्रित एव नियमात्, आश्रितस्तु गुणः कर्म सामान्य विशेषः समवायो वेत्यनियमः तस्मात्तेन सह तेषामन्यत्वादपोहोऽनपोहचेति संशयः स्यादिति। __अथैतदेव कुतस्त्वया प्रत्यवगतं तद्वक्तव्यम्, अस्मदिष्टवस्त्वन्वयदर्शनादेवैतत्सिद्धम्, तदभावे तदप्रसिद्धेः, एवं तावद्भेदपक्षे परं प्रत्युक्तयोरानन्त्यानुक्तिव्यभिचारदोषयोः सविशेषयोरन्यापोहपक्षेऽप्यस्तित्वं दर्शितम्।
अनन्तरस्यापि चाभावः - तद्यथा 'व्याप्तेरन्यनिषेधस्य तद्भेदार्थैरभिन्नता' असन्निवृत्तेः सर्वभेदव्यापित्वात्तैरभिन्नार्थत्वात् सामानाधिकरण्यमुपपन्नमित्येतन, यस्मात् – 'असनिषेधाभावत्वाद्विशेषार्थविभिन्नता' सामान्यशब्दस्य हि सदादेः स्वभेदाप्रतिक्षेपेणार्थान्तरव्युदासे कुतो व्यापारोऽवधारितः प्रागुक्तं विस्मृत्य, अत्र तु वयं ब्रूमः स स्वभेदप्रतिक्षेपेणैवेति, तस्य सनियमार्थत्वात्, असत्प्रतिषेधस्याभावत्वात्, ततो भेदानां परस्परतः सदसत्त्वात् स्वभेदाः प्रतिक्षिप्ता एव, सन्तोऽप्यसंत एव न भवन्तीति प्राप्तम्, ततश्च भेदश्रुत्या सामानाधिकरण्यमनुपपन्नम्, असनिवृत्तेरभावसाधनत्वात्, अभावेन वैकविभक्तित्वमनुपपन्नं भेदानाम्।
पदस्याप्यनुपपन्नं सामानाधिकरण्यं विभक्तिभेदेनापि, सद्रव्यस्य गुणस्य वेत्यादि सम्बन्धस्यापि भेदैरभावस्यानुपपत्तेः