SearchBrowseAboutContactDonate
Page Preview
Page 339
Loading...
Download File
Download File
Page Text
________________ ३२८ द्वादशारनयचक्रे खपुष्पवदिति, पार्थिवद्रव्यसत्त्वासिद्धयोऽसिद्धा इति चेन्न, व्यावृत्तिप्राधान्येऽन्यत्वात्, तथा सदपि न सत्, द्रव्यादित्वेनासिद्धत्वादेवं पूर्व पूर्वं नात्मरूपभाक् स्यादुत्तररूपेणाभूतत्वादग्निवदिति। यदप्युक्तं 'गुणत्वगन्धसौरभ्यतद्विशेषैरनुक्रमात् । अद्रव्यादि व्यवच्छेद एकवृद्धयोत्पलादिवत् ॥' इति व्यावृत्तिप्राधान्ये गुणवत्त्वादिभिरद्रव्यादिव्वच्छेद एकवृद्ध्या युज्यते, विधिप्राधान्ये तु 'दृष्टवद्यदि सिद्धिः स्यात् शौक्ल्यरूपगुणाश्रितात् । क्रमवत्प्रातिलोम्येऽपि त्रिद्वयेकार्थगतिर्भवेत् ॥' इति, तदपि 'दृष्टानुवृत्तेः........' तव्याख्या - दृष्टानुवृत्तेरेव, नादृष्टावच्छेदात् आनुलोम्यानिश्चयः प्रातिलोम्याद्वा संशयः, यतस्तत्र तुल्येऽन्यत्वे शुक्लत्वाद्गुणे निश्चयो द्रव्यकर्मणोर्न, दर्शनादेव चैकानेकात्मभ्यामाश्रितगुणरूपादिभिर्गुणरूपशौक्ल्येषु संशय इति। तत्रानुबन्धितत्त्वदर्शनानैवान्यत्वमिति चेत् शुक्लं तर्हि नीलरक्तपीताद्यपि स्यात् रूपादनन्यत्वात्, शुक्लगुणस्वरूपवत्, एवमेव रसायपि रूपं स्यात् गुणादनन्यत्वात्, गुणः कर्मायपि स्यात्, आश्रितानन्यत्वात्, आश्रितं व्यणुकाद्यपि उत्क्षेपणादि रूपादि च स्यात्, आश्रितत्वात् तथा चाऽऽश्रितादिना गुणादिसंशयो न स्यात्, शौक्ल्यैकात्म्यात्। ___ अनन्यत्वमेव तहतुल्यं शौक्ल्यादेः, रूपादयो नान्ये शौक्ल्यादेः तद्रूपानुबन्धित्वात्, वृक्षादिपार्थित्ववत्, अरूपादित्वे
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy