________________
नवमोऽरः नियमभङ्गनयः
३४१ शक्नुयाद्वक्तुम्, 'दह भस्मीकरण' इत्येकार्थत्वात् तथापि दानरक्षणार्थदारुशब्दस्याविवक्षितत्वाददोषो गगनाविवक्षावत्।
सहासहभवनद्वयमपि द्विष्ठमतो ययेकमथ नाना सर्वथाऽप्येकमन्यदिति वा न शक्यते वक्तुम्, अथापि कथञ्चिदभ्युपगम्यापि काष्ठाग्योरन्यत्वं त्वन्मत्या यदन्यत् तदन्यदेवेति न वक्तव्यमन्यत्वात्, हस्तायन्यानन्यदेवदत्तवत्, चक्षुरादिव्यपदेशविशिष्टरूपाद्यात्मकघटवत्, सम्बन्ध्यन्तरापेक्षविशिष्टपितृत्वादिव्यपदेशात्मकदेवदत्तवच्चैकः, अन्यथा तद्भेदाभावात् भेदास्त एवान्य इति वक्तुमशक्याः, देवदत्तात्मकत्वात् घटाद्यात्मकत्वाच्च ........
रूपादिक्षणान्तरान्यानन्यपरमाणुवदिति ।
' अभावस्तर्हि, अग्न्यनग्नित्वव्यावृत्तेः, खपुष्पवत्, यथा खपुष्पं नाग्नि नग्निः तदेकत्वानेकत्वव्यावृत्तेरसच्च, तथाऽग्नीन्धने स्यातामिति, ननु भिन्नव्यवस्थानलक्षणत्वानास्तीत्यप्यवचनीयमेव, यदि दाह्यदाहकत्वलक्षणनियमो न व्यवस्थितः ततोऽग्निरपि दह्येत काष्ठवत्, पच्येत, ओदनवत्, भुज्येत चौदनवदेव, तन्धनमपि पृथगेव दहेत् पचेञ्चाग्निवदित्यनुभयताऽप्यवक्तव्यैव।
अनुभयश्वेनास्ति उभयमस्ति तर्हि तच्चोभयं भिन्नव्यवस्थानवृत्तमपि, एवं नाभ्युपगम्यते ततो सर्वात्मकैकनित्यकालायन्यतमद्भावतत्त्वमसन्निरुपाख्यं चेत्येतदुभयं स्यात्, तच्च न भवति निष्ठितत्वादेषां पक्षाणाम्, अनुभयत्वप्रतिषेधादुभयत्वमिति चेन्न,