________________
३४२
द्वादशारनयचक्रे
-
अन्यत्वावक्तव्यत्वात्, अन्यत्वप्रतिषेध एकत्वमिति चेत् न, तस्याप्यवक्तव्यत्वात्, एकत्वान्यत्वोभयत्वानुभयत्व प्रतिषेधेन च प्रधानोपसर्जनभावोऽपि प्रतिषिद्ध एवेति सर्वथाप्यवक्तव्यतैव। ___ एवं सामान्यविशेषयोस्तावद्ययेकत्वं विशेषस्य भावेन नान्यत्वं, ततोऽनात्मनो भावस्याप्रवृत्तेरभावतैव स्यात्, न प्रवृत्तिर्भावस्य, एकत्वात्, दग्धेन्धनवत्, ननु यथा विशेष एकैकोऽपि प्रवर्त्तमानो दृष्टस्तथा सूक्ष्मावस्थ एकको भावः प्रवर्त्यतीति चेत् को वा ब्रवीति निःसामान्यस्य विशेषस्य प्रवृत्तिम्? अत एव विशेषत्वात् सनेव विशेषीभवति, तदपेक्षत्वाच विशेषस्य, रूपं हि रसाद्विशिष्यमाणं सम्बद्धरसमपेक्ष्य विशेषो भवति तथा रसोऽपि नासत् खपुष्पायपेक्ष्य, विशिष्यते स तस्मात्तेन वा स इत्यादिकारकाणामेव कारकत्वात्, अविशिष्यमाणो हि विशेषः विशेष इति निर्देशमेव नाईत, विशिंषनन्यमन्येन च विशिष्यमाणः विशेषो भवति, तस्मात् स्थितमिदं सामान्यमेव विशेषः इति, तथा च कुतः पृथक् प्रवृत्तिविशेषस्य? को वाऽऽश्वासो विशेष एकैक एव प्रवर्त्तत इति।
सूक्ष्मावस्थाप्राप्तिदिगप्यवयवावयविविशेषसामान्यकारणकार्याणां भेदे सिद्धे स्यानान्यथा, प्रधानावस्था हि सूक्ष्मा महदादिविषयस्थूलापेक्षैव ते चाऽवस्थे परस्परापेक्षे परस्परमन्तरेण न भवतः, एतच्च सूक्ष्मावस्थोक्त्यैव त्वयाऽभ्युपगतं भवति, तद्वयतिरेकेणाव्यवस्थानात्, तथा च तदनुपपत्तिरभावत्वापत्त्यभ्युपगमात्, प्रागभावप्रध्वंसाभावात्मकत्वादवस्थयोः ततश्च तेऽभ्युपगमहानिः ।