________________
नवमोऽरः नियमभङ्गनयः
३४३
अथाभावत्वमेव भावस्याभ्युपगच्छसि ततश्च चक्षुरादिलक्षणलक्ष्यारूपाकाशादिविशेषाणां नि:जानामुत्पत्तिरसतीति सर्वशास्त्रलोकगतव्यवहाराभावप्रसङ्गः।
अथोच्येत प्रागग्नीन्धनैकत्वे दोषादिन्धनाग्यैकत्वाभ्युपगमवद्यदि भावो विशेषान् व्याप्नोति, न तु विशेषो भावम्, एकदेशवृत्तित्वात् तस्माद्विशेषेण सह सामान्यस्यैकत्वं नास्ति, अस्ति तु विशेषस्य सामान्येन सह, भावोपग्रहान्तर्भावितवृत्ते विशेषत्वादिति, एतदेव त्वं पृच्छयसे - अथ भेदवृत्तिः कथम्? दृष्टा हि भेदेन वृत्तिर्लोकेऽनयोः, एकत्वेऽनयोश्च विशेषाविशेषवृत्त्योः कोपपत्तिः?
परस्पररूपतापत्तौ नानात्वकृतायां कस्मान समानभूतः सन्नविशेषरूप एव संवृत्तः? भावो वा विशिष्टत्वाद्विशेषरूपः?, तदेकत्वात्, दृष्टा चेयं सामान्यविशेषयोरनुवृत्तिव्यावृत्तिभ्यां भेदवृत्तिः, विकल्पाचैकत्वव्याघातः, एकत्वे कुतोऽयं विशेषः - इदं न सह, इदं सह इति, विशेषणक्रियाधारकरणायनुपपत्तेश। ___अथापि कथञ्चिदित्यादि पूर्ववद्यावत् परमाणुवदिति, अथ मा भूवनेते दोषा इति भावविशेषयोरन्यत्वपक्षोऽभ्युपगम्यते चेत् तत्र तावद्यदि भावस्य विशेषेण सहान्यत्वं तेन तर्हि भावस्य विशेषात् पृथग्भूतं रूपमाख्येयम्, निर्दिष्टे हि पृथग्भूते रूपेऽन्यत्वं सिद्धयेत्, शक्यञ्च प्रतिपत्तुमयमस्मादन्य इति, यथाऽन्येषामन्येभ्यः पटादिभ्यस्तन्तुत्वम्, न शक्यते च भावस्य विशेषात् पृथग्भूतं तत्त्वं. दर्शयितुम्, न ह्यन्यदन्यसाधारणरूपं भवति, तस्माच्छक्यते च ततः