________________
३४४
द्वादशारनयचक्रे
पृथग्भूतेन तत्त्वेन निर्देष्टुम्, न तथा विशेषात् पृथग्भूतमसाधारणं भावस्य रूपं शक्यं वक्तुम् । सामान्यविशेषैकत्वनानात्वाभ्यां त्वप्रदर्शितपृथिवीघटपटादिनिर्देशवदत्रापि स्यादिति चेदुच्यते न मम किञ्चित् सामान्यविशेषकत्वनानात्वाभ्यां व्यवस्थितमस्ति, त्वन्मता -नुवृत्त्या संवृतिघटपटवदित्यैक्यं कर्तुमुदाहियते, अनिरूप्यमाणस्त्व -सन्नापद्यते, अविशेषत्वे सत्यरूपत्वात्, खपुष्पवत्।
अथोच्येत रूपं पृथग्भावस्यविशेषादनुप्रवृत्तौ, तथा कुतो विशेषं विना? घटपटाद्यनुप्रवृत्तिरूपत्वेऽपि पृथग्रुपाख्यानाशक्यत्वात्, यदि स्याद्भावो विशेषरहितस्ततो निरवशेषविशेषाभावे ऽपि खपुष्पादावनुप्रवृत्तिरूपं स्याद्भावत्वाद्धटादाविव ।
अथोच्यतैतद्विशेषप्रधानमन्यत्वं मा भून्नाम, तथापि विशेषस्य सामान्येन सहान्यत्वमस्ति दृष्टत्वात्, दृष्टो हि विशेषो भावविनाभूतोऽपि, यथा भिन्नो घट इति, अत्रोच्यते भावविषय एवैष भेदोपचारः, भिदिक्रियाविशेषणविशिष्टावस्था तु भावस्यैव मृत्पिण्डशिवकादिभवनानुविद्धस्य, नाभावस्य खपुष्पादेः ।
यदि मन्येथाः भावे भेदोपचार इति स भावादन्यत्वे खपुष्पवनैव स्यात्, न भिन्न इति उत्पन्न इति वोपचर्येत, अभावत्वात् खपुष्पवत्, अत एव च तत्सिद्धिः, भिन्नसमानाधिकरणस्य मुख्यमूलत्वात्, भिन्नो घट इति घटेन समानाधिकरणो भेदोपचारो गौणो मुख्यं भेदमनुप्रवृत्तिसहचरितमवस्थाविशेषं भावस्यापेक्ष्यविनष्टेऽपि क्रियते, अभिन्न एव वा भावे कपालाद्यवस्थायां भेद