SearchBrowseAboutContactDonate
Page Preview
Page 356
Loading...
Download File
Download File
Page Text
________________ नवमोऽरः नियमभङ्गनयः ३४५ उपचर्येत स्तिमितसरःसलिलवदनुत्पादव्ययत्वाद्भावस्य, विशिष्यते विशेष इति सतो विशेषत्वात् तदपेक्षत्वाच्च, पूर्वोक्ताच्च तद्वृत्तित्वाच । भावादन्त्यविशेषस्तु नैव पृथग्भूतः, विशेषत्वात् घटवत्, यदा चायं भावाव्यतिरिक्तो न कदाचिदप्यभावो भवति खपुष्पवत्, ननु यदैव सामान्यमविशेषं तदैवान्यत्वम्, न, अविशेषात् भावस्यात्मलाभाभावादभावत्वापत्तेरुक्तत्वात्, यदपि च भावो विशेषेण सह भवति न विशेषः, विशेषो भावेन सह, न भाव इति सहासहवृत्तिभेद उच्यते, स चासिद्धः, सिद्धे ह्यन्यत्वे सहासहभवनं द्विष्ठत्वातू, तथापि कथञ्चिदन्यत्वमभ्युपगम्यापि त्वन्मत्या यदन्यत् तदन्यदिति न वक्तव्यम्, अन्यत्वात् हस्तादन्यानन्यदेवदत्तवत्, यावद्रूपादिक्षणान्तरान्यानन्यपरमाणुवदिति। ___अत्यन्ताभावस्तर्हि तौ, विशेषाविशेषत्वाभावात् खपुष्पवदिति, ननु भिन्नव्यवस्थानलक्षणत्वादनुभयत्वमप्यवचनीयम्, यदि हनुवृत्ति -व्यावृत्ती तयोभिनव्यवस्थाने न स्यातां ततो रूपादिरपि पृथगेव भावात् प्रवर्तेत व्यावृत्तिरूपरहितत्वात्, भाववत्, भावोऽपि च रूपादेः पृथगेव व्यावर्तेत, अनुप्रवृत्तिरूपरहितत्वात्, खपुष्पवदित्यनु -भयताप्यवक्तव्यैव, अनुभयश्चेनास्त्युभयमस्तु तर्हि भिन्नव्यवस्थानवृत्तमपि तदेवं नाभ्युपगम्यते ततः सर्वात्मकैकनित्यकालाधन्यतमद्भावतत्त्वमसन्निरुपाख्यश्चेत्येतदुभयं स्यात्, तच्च न भवति निष्ठितत्वादेषां पक्षाणाम्, अनुभयत्वप्रतिषेधादुभयत्वमिति चेन, . अन्यत्वावक्तव्यत्वात्, अन्यत्वप्रतिषेध एकत्वमिति चेन तस्याप्यवक्त -व्यत्वात्, एकत्वान्यत्वोभयत्वानुभयत्वप्रतिषेधेन च प्रधानोपसर्जन
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy