SearchBrowseAboutContactDonate
Page Preview
Page 357
Loading...
Download File
Download File
Page Text
________________ द्वादशारनयचक्रे भावोऽपि प्रतिषिद्ध एवेति सर्वथैवावक्तव्यता, द्रव्यगुणकारणकार्यादि -स्वप्येवमेवेति स्थितमवचनीयं वस्त्विति। ____ अतोऽन्यथोक्तौ वस्तुविसंवादः, अन्यस्यानन्यत्वेनानन्यस्य चान्यत्वेनावधारणात्, घटपटविपर्ययवृत्तिवदिति। अयश्च नयो नियम एव वस्त्वितीच्छति, सामान्य विशेषैकत्वान्यत्वैकान्तायत्तस्ववृत्तेरेव निश्चितनियताधिक्ययमनात्, उक्तविधिना सामान्यविशेषयोरेकत्वेऽन्यत्वे द्वित्वेऽनुभयत्वेऽन्यतर प्रधानोपसर्जनत्वे च निश्चितनियताधिकभावेनायतस्ववृत्तित्वात्, अवक्तव्यत्वे निश्चितनियताधिकभावेन यतस्ववृत्तित्वात्। अत्र चाभिजल्पः शब्दार्थः प्रागेवोक्तः, आह हि'शब्दोवाऽप्यभिजल्पत्वमागतो याति वाच्यताम् । सोऽयमित्यभिसम्बन्धाद्रूपमेकीकृतं यदा। शब्दस्यार्थेन तं शब्दमभिजल्पं प्रचक्षते ॥ तयोरपृथगात्मत्वे रूढेरव्यभिचारिणि। किश्चिदेव कचिद्रव्यं प्राधान्येनावतिष्ठते॥" इति सोऽयमित्येकीकृतत्वाच्छब्दरूपस्यार्थेनान्यत्वमवक्तव्यमित्युक्तं भवति, द्विष्ठत्वादेकीकरणस्यैकत्वमवक्तव्यमित्युक्तम् भवतीति, शेषमभ्यूह्यम्। स शब्दार्थः, पदसङ्घातो वाक्यम्, 'देवदत्त! गामभ्याज शुक्लामिति प्रत्येकवृत्तिसामान्यविशेषैकत्वान्यत्वानेकार्थस्थत्वात् अवक्तव्यः तदर्थ इति दिक्। एवं च कृत्वा यदप्युक्तं १. वाक्यपदीयम् काण्डः २ श्लोकौ १३०-१३१
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy