SearchBrowseAboutContactDonate
Page Preview
Page 358
Loading...
Download File
Download File
Page Text
________________ नवमोऽर: नियमभङ्गनयः 'सामान्यार्थस्तिरोभूतो विशेषो नोपजायते । उपात्तस्य कुतस्त्यागो निवृत्तिः क्वावतिष्ठताम् ॥” इति तदपि प्रत्युक्तमेव यथाविचारितनिश्चितमवक्तव्यं वस्त्विति, एवमेव 'नामस्थापनाद्रव्यवाच्येष्टाकरणाद्भावयुक्तवाची शब्द' इति शब्दनयमतं युज्यते, यदवक्तव्यमिति पर्यवणमात्रमाह, सामान्यविशेषैकत्वान्यत्वानेकात्मकस्य वस्तुनो वाचा वक्तुमशक्यत्वात् । ३४७ 1 शब्दनयदेशत्वात् पर्यवास्तिक एषः, किं कारणं भावयुक्तवाचित्वे पर्यायग्रहणम्, न सामान्यग्रहणमिति चेदुच्यते भुवो भिन्नधात्वर्थवाचित्वात्, न सत्तैव भूः पर्यवति भवतीति भावः, पर्यवणञ्च प्रवेशनम्, परिशब्दः समन्तादर्थः, अवशब्दः प्रवेशार्थः, समन्तात् प्रविशत्येकतामन्यतामुभयतामनुभयताश्च योऽर्थः स पर्यवः, तत्रास्तीत्येवं मतिरस्येति मूलसंज्ञाऽस्य नयस्य, उपनिबन्धनमस्य ' तदुभयस्स आदिट्टे' इत्यादि । इति नियमभङ्गो नवमोऽरः । १. वाक्यपदीयम् काण्डः२ श्लोकः १५ २. भगवती सूत्रम् श. १२ उ. १०
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy