SearchBrowseAboutContactDonate
Page Preview
Page 359
Loading...
Download File
Download File
Page Text
________________ दशमो नियमविधिनयारः नैवंविधो नियमो युज्यते, स्ववचनविरोधादिदोषात्, अनेकावस्थापत्तावनियतत्वाच्च, इदं हि त्वदीयं वचनं लोकाभाणक एव संवृत्तम्, तद्यथा-इदं तत् तदेवोद्यते तदेवापोयते त्वया ततश्चासत्तत्, स्वयं विहितनिवर्त्तित्वात्, सर्वोक्तानृतपक्षवत्। एतस्य प्रतिपादनार्थमेकत्वादि प्रतिषिध्य व्यवस्थाप्य चापोयते, तयथा प्रागेव तावत् सामान्यविशेषयोरेकत्वे प्रतिषिद्धेऽन्यत्वमुपस्थितं विधाय दृष्टान्तेऽनेरिन्धनपृथग्भूतं रूपमाख्येयमित्यादिना पुनः प्रतिषिद्धः, सोऽपि चाप्रत्ययः यथोक्तमग्नेरिन्धनमित्यादि यावदसदापद्यतेत्यादि, तदेतत् पुनस्तयोः स्वयमेवापोदितम्, ननु ज्वाला देश इति निरूपणादन्यत्वं स्फुटीभूतमपि तद्वा कुतोऽनिन्धनमित्यनिन्धनप्रत्याख्यानेन ज्वालारूपमिन्धनसहितमेवेति ब्रुवता। एतच्चान्यत्वमेव समर्थयत्यतोऽप्रत्ययम्। उपसंहारेऽपि यदुक्तं विशेषस्य भावपृथग्भूतं रूपमाख्येयमित्यादि, एतदपि त्वयैवापोदितम्, ननु भवद्विशेषा एव समुदिता
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy