________________
दशमोऽरः नियमविधिनयः
३४९ एकमित्युच्यन्ते भ्रान्तैः, एकैक एव विशेषः प्रणिधानवद्भिरवगम्यते, रूपरसादिघटैकत्वविशेषवत् । पृथगेकत्वविलक्षणं प्रतिपादयितुं विशेषस्य भावपृथम्भूतं रूपमाख्येयमित्यादिना पृथगेकत्वमन्यत्वं विशेषाणां स्वरूपेणावधारयितव्यमिति वचनादेवान्यत्वं समर्थितम् अतोऽन्यत्वप्रतिषेधोऽतिस्फुट एव स्ववचनविरोधो दान्तिकोपसंहारेऽपीति।
ननूभयतोऽपि प्रतिषेधाददोष, इति, अत्रेदमसि त्वं प्रष्टव्यः - किंविषया तवक्तव्यता? तत्र न तावद्भावस्य विशेषस्योभयस्य वा, भावस्यैकत्वान्यत्वोभयत्वानुभयत्वानि प्रविभागेनाप्रविभागेन वा स्युः, अप्रविभागतस्तावदेकत्वं नास्ति, द्वितीयरहितस्योपाख्यानाशक्यत्वेन त्वयैव प्रतिषिद्धत्वात्, प्रविभागतोऽपि नास्ति, सहासहभवनस्य द्विष्ठत्वादित्यादिना निषिद्धत्वादेव, तथा विशेषस्योभयस्य च सिद्धे चैकत्वेतदलेनान्यत्वं व्याव]त, तत्तु नास्ति। ___ न चान्यत्वं सिद्धम्, त्वयैव तस्यापि निषिद्धत्वात्, यदलेनोभयत्वं व्यावत्यतैकत्वं वा तथानुभयत्वमपि नास्ति, एकत्वान्यत्वयोर्लक्षणभेदनियमादित्युक्तम्, यदलेनैकत्वान्यत्वौभयत्वानि व्यावधैरन्, यस्य वाच्यतामवाच्यतां वा गृहीत्वाऽवाच्यं वाच्यं वा व्यावर्तेत, व्यवस्थापूर्वत्वादितरव्यावर्त्तनस्य।
__ अन्वयव्यतिरेकाभ्यामधिगमाच्च, कथम्? एकशब्दो ह्यन्यनिरपेक्षसङ्ग्यार्थः, तस्मादेक इत्युक्ते नान्योऽस्तीत्युक्तं भवति,. स चार्थो न घटते, न स निरपेक्षः एकत्वान्यत्वोभयत्वानुभयत्वविकल्पानामन्योऽन्यापेक्षत्वात्, अथासहायवचन एकशब्दः,