________________
३५०
द्वादशारनयचक्रे
तथा सति सहगतेद्वाद्यर्थेनाव्यतिरेकादेकत्वं नास्ति किन्त्वन्यत्वमेव सिद्धयेदिति पुनरन्यत्वमेवार्थः।
ततोऽन्यार्थे तु साक्षादन्यत्वमेवविशेषविषयं ततोऽन्यत्वनिषेधेऽतिस्फुट एव स्ववचनविरोध इत्युक्तम्, तथा चानन्यत्वमपि सिद्धयति प्रतिपक्षाक्षेपात्, यथा व्याख्यातमेकत्वान्यत्वयोः परस्परप्रत्यपेक्षत्वं तथोभयानुभयत्वयोश्च, एवं तावदेकत्वसिद्धप्रतिपक्षबलात् सिद्धं सद् व्यावय॑ते नान्यथेत्यवक्तव्यनिर्विषयता, एवमन्यत्वोभयत्वादावपीत्येकत्वादिप्रतिषेधाः किं कथमवक्तव्यम्? ते तु निषेध्यानामतथात्वे निर्मूला अवक्तव्यत्वमेव व्यावर्तयन्तीति।
न पराभिप्रायगतैकत्वायेकान्तव्यावर्त्तनार्थत्वान्निर्मूलाः प्रतिषेधाः, न च निर्विषयमवक्तव्यत्वम्, एकत्वादि प्रतिषेधतथार्थत्वात्, अथ त एकत्वादयो विद्यमाना अविद्यमाना वा कथं परेण प्रतिपन्नाः? यदि तावद्विद्यमानाः सन्तः प्रतिषिध्यन्ते ततस्तत्रावक्तव्यत्वनिर्विषयतोक्ता, अथाविद्यमानाः, अत्यन्तमभूतत्वात् कथं प्रति -पत्तुं शक्यन्ते? अप्रतिपन्नत्वादेव प्रतिषेधानुपपत्तिः।
ननु वादपरमेश्वरवादवत् प्रतिषेध उपपद्यत इत्येतच्चायुक्तम्, तद्वैधात्, न ह्येषां भवता एकान्तभवनं व्यावाऽनेकान्तभवनं प्रतिपाद्यते, तत्र ह्यनेकान्तरूपेण वक्तव्या एव सन्त एकान्तरूपेणावक्तव्या इत्युच्यन्ते, सप्रतिपक्षत्वाद्भावानाम्, तथा ह्याह
'सप्रतिपक्षाण्येतानि यतस्तस्मान्न तानि वाच्यानि। एकान्तेन हि वदतो मिथ्यावादः प्रसज्येत ॥ इति ।