________________
दशमोऽरः नियमविधिनयः
३५१
अवक्तव्यशब्दस्य तु प्रतिपक्षः सम्भाव्यते नज्युक्तत्वात्, अब्राह्मणवत्, अपि च त्वयाप्यभिजल्पशब्दार्थवादिना दिक्प्रत्यासत्त्याऽवक्तव्योऽर्थ इत्यभ्युपगतम् । त्वन्मत्या स चावक्तव्य एवावक्तव्य इति नत्रा प्रतिषिध्यते, स च प्रतिषेधप्रतिषेधत्वात् प्रकृति गमयेत्, अनब्राह्मणवदिति।
संवृत्यैव वाग्व्यवहार इति चेत्, अपरमार्थस्तवक्तव्यः, संवृतिसत्यपदसमुदायार्थत्वात्, मण्डूकजटाभारकृतकेशालङ्कारवन्ध्या पुत्रखपुष्पदामकृतमुण्डमालाख्यानवत्, धर्मधर्मिविभागव्यवस्थाभावात् प्रतिपादनप्रमाणाभावेनाविदितं भवत्यवक्तव्यं वस्तु।
इदमसि त्वं प्रष्टव्यः, अथ यस्य य एते देशास्तेषां यो विशेषोऽवयवस्तस्मात्तत् किमव्यतिरिक्तम्? व्यतिरिक्तं वा? अवक्तव्यस्य विशेषावयवत्वनियमात् प्रश्नोत्थानम्, सामान्यविशेषैकत्वाद्याशङ्कासम्भववत्, यदि सामान्यमेव विशेष एवोभयमेवाऽन्यद्वा वस्तु, तत्र यदि सामान्यकृतमेकत्वं विशेषीभूतमक्रम्य विशेषस्वरूपं वस्तु व्यावर्त्तयत् तत् सामान्यकृतैकत्वविशेष व्यावर्त्तयेत् न सामान्यमेवेति, यदि वोभयकृतमन्यत्वं न सामान्यं न विशेषश्च वेति तदेकत्वान्यत्वयोरपि विशेषेणाव्यतिरिक्ततायां सत्यामवक्तव्यार्थः संवदेनान्यथा, तेषां स्वातन्त्र्येऽवक्तव्यत्वनिवृत्तेः।
अवक्तव्यत्वस्य नियमत्वादस्य च नियमस्य तथा तथा ऽऽत्मान्तरनिवृत्तावात्मान्तरत्वापत्तेर्विशेष्यमाणस्य विशेषत्वमेव, यदि पुनर्विशेषव्यतिरिक्तं स्यात् ततो व्यतिरेकादन्यत्वाक्षान्तेः।