SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ ३५२ द्वादशारनयचक्रे यद्येवं विशेषाव्यतिरिक्तं ततस्तत्तु विशेषमात्रमेव, यथा भिन्नो ऽप्येको विशेषो रूपादिस्वरूपादव्यतिरिक्तत्वाद्विशेष एवेत्यभ्युपगम्यते त्वयापि, यस्य भावेन सहैकत्वान्यत्वादिविचार्यते, यस्माच तैर्भावोऽवक्तव्य इत्युच्यते, एष विशेषोऽप्येक एव, अव्यतिरेको ह्येकलक्षणम्, यथा 'पुरुष एवेदं सर्वमित्यादि, स च विशेषो भावो वस्तु, अवक्तव्यस्य विशेषाव्यतिरिक्तत्वात्, तत्स्वात्मवत् यथा विशेषाव्यतिरिक्तं विशेषस्वात्मवस्तु विशेष एव, भवतीति भाव इति सत्तार्थत्वात्तस्य, ततश्च विशेषमात्रमेव, स्थितमिदमेक एव विशेषस्तद -वक्तव्यसामान्यमिति। तस्मिंश्च स्थिते तदेकत्वात् कुतोऽवचनीयता तस्य न हि विशेषोऽवचनीयो विशेषाव्यतिरिक्तत्वात् स्वात्मवत्, एवं निर्धारितो विशेषो वाच्य एव तथा च निर्धारितार्थावक्तव्यवचनात् उष्णत्वेन निर्धारितस्याग्नेः शीतोऽग्निरिति वचनव्यवहारवदबुद्धिपूर्वकयादृच्छिकवचनव्यवहारप्रसङ्गः, अतथा चेदिच्छस्येवं तर्हि विशेषो वचनीयः, विशेषाव्यतिरिक्तत्वात्, अवक्तव्यसामान्यवत् । त्वया विशेषस्यैकत्वादि वाच्यत्वेनाभ्युपगम्य प्रतिषेधेनावक्तव्यप्रतिपादनस्य कृतत्वात्, तस्याप्यवाच्यत्वे वस्तुनवावाच्यत्वे तयोः परस्परमवचनीयत्वादुभयतोऽप्यवचनीययोर्द्धयोरपि वचनीयत्वं स्यात्। अथ विशेषव्यतिरिक्तं वस्त्विष्यतेऽवक्तव्यत्वादेव, नन्वेवं तस्य भावत्वे वक्तव्यतैव, अभावत्वेऽप्यसदिति वक्तव्यतैव, तथा
SR No.022387
Book TitleDwadasharnay Chakram
Original Sutra AuthorN/A
AuthorLabdhisuri
PublisherShantinagar Shwetambar Murtipujak Jain Sangh
Publication Year2010
Total Pages416
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy