________________
दशमोऽरः नियमविधिनयः
३५३
त्वदुक्तवदप्यवस्तुता, अभूतावक्तव्यत्वात्, खपुष्पवत्, भावपक्षेऽप्यभूतावक्तव्यत्वात् प्रधानादिवत्तदवस्तु, यथा च तद्विशेषव्यतिरिक्तमिष्यते तथा विशेषोऽपि वस्तुनो व्यतिरिक्तः, एवञ्च तदेवासत्त्वमनयोः, त्वदिष्टं वस्त्वसत्, अविशेषत्वात्, खपुष्पवत्, विशेषो ऽप्यसत्, वस्तुव्यतिरिक्तत्वात्, खपुष्पवत्, तथा च सामान्यविशेषयोरेकत्वान्यत्वादिविकल्पप्रपञ्चनमाकाशरोमन्थनवत्, परिक्लेशमात्रफलम्, अयथार्थत्वात्।
अथावक्तव्यविशेषव्यतिरेकाव्यतिरेकं वस्त्वित्येष मे पक्षः, तथापि द्विविशेषांशवृत्तेः विशेषप्रधानावक्तव्योपसर्जनपक्षता, विशेष एवावक्तव्यत्वेन विशेष्यत्वागौरदन्तुरत्वद्वयविशेषणविशेष्यदेवदत्तवत् प्रधानः, अवक्तव्यस्य चोपसर्जनता स्यादिति प्रधानोपसर्जनपक्षता प्रतर्कितोपस्थिताऽनिष्टा चसेति।
तस्या अपि च रूपं निरूप्यम्, किमेकत्वमन्यत्वमुभयत्वमनुभयत्वं वेति प्रतिषेध्यविपक्षरूपस्याश्रयितव्यत्वात्, तत्र तस्य किं द्विविशेषांशवृत्तिराश्रीयते? अथ नाश्रीयते? अथाश्रीयते निषिध्यमान -प्रतिपक्षरूपता ततः पर्यायेण साझ्यादिवादगतानन्यत्वादिदोषप्रसङ्गः, तत्र त्वयैर्वोक्तदोषास्तवाऽऽपतन्ति।
प्रतिपक्षरूपानाश्रयणे सर्वविकल्पानां निवर्त्तनाद्वस्त्वत्यन्तमसदिति कुत आयाताऽवक्तव्यता? अनवधारण परिग्रहेत्वेकं द्रव्य-. मनन्तपर्यायमिति वादपरमेश्वरशरणं प्रपन्नोऽसि तथापि तेऽभ्युपगमविरोधाद्विजिगीषुतां निरुणद्धि।