________________
द्वादशारनयचक्रे
अथैकान्तवादगतदोषविदरीकरणार्थमसदेव तद्वस्त्विति वदेत् तदपि न शोभनं विशेषद्वारा निषेधानुपपत्तेः, ततोऽप्ययुक्तमवक्तव्यत्वम्, विशेषधर्मासत्त्वे विशेष्यत्वाभावात्, खपुष्पवत् ।
३५४
अथोच्येत प्रतिपादनार्थं विशेषैकत्वान्यत्वाद्यसदेव कल्प्यते, ग्रामादिपथोपदेशे दिगादिप्रदर्शनवत्, अत्र त्रिलक्षणोपपत्तेस्तत्र तयोश्च स्वरूपेणावक्तव्यतैवेति, एवं तर्हि ननु प्रतिपादनमित्यप्यवचनीयमेव, अत्यन्तासत्त्वात् खपुष्पवत् प्रतिपादनमिति चोच्यते त्वया लोकदृष्टप्रतिपादनवैधर्म्येण, विशेषवचनस्य च विशेषाविशेषाद्येकत्वाद्यवक्तव्यत्वात्, प्रतिपाद्यप्रतिपादकयोरपि चैकत्वान्यत्वाद्यवक्तव्य - त्वात् तदवचनीयत्वे च तत्सत्त्वमवश्यम्भावि, वक्तव्यवत् ।
अथोच्येत न प्रतिपाद्यात् प्रतिपादकभेदोऽस्ति, किन्तु सर्वस्य विशेषणसविशेष्यस्यास्य वाक्यसङ्घातस्यैकस्यैवोक्तप्रकारेणावक्तव्या -र्थप्रतिपादनवचनाददोष इत्यत्र ब्रूमः, ननु यद्यवचनीयमित्येतदप्यवचनीयमेव, वस्तुत्वात्तदर्थवदिति, अत्रेदानीं परमनिश्वये त्वदीये तत्तावत् प्रत्यक्षमुच्यमानं किं कथञ्चिदवचनीयम् सर्वथा वा? उभयथा च प्रत्यक्षादिविरोधाः, एकत्वेनान्यत्वेनोभयत्वेनानुभयत्वेना -न्यतरप्रधानोपसर्जनतया तथातथावचनीयत्वात् ।
इत्येवंविधमवस्तु, सर्वथाऽप्यरूपत्वात् खपुष्पवत्, सर्वेण वा विरोधात्, खपुष्पवदेव, प्रत्यक्षरूपादिवत्, ज्ञानसुखादिरूपादिवत्, तस्मान्नावक्तव्यं वस्तु |
नापि निर्विचारवक्तव्यमेकान्तवादप्रसङ्गात् तत्र चोक्तदोषत्वात्, विशेषोऽपि रथादिवन्न भवति वस्तु, समुदायत्वात्, न भावोऽपि, त्वयैव प्रतिषिद्धत्वात् कुतस्तदेकत्वाद्यवक्तव्यता?