Book Title: Dwadasharnay Chakram
Author(s): Labdhisuri
Publisher: Shantinagar Shwetambar Murtipujak Jain Sangh
View full book text
________________
अष्टमोऽरः उभयनियमनयः
३२७
क दर्शनं यत्त्वयेष्टम्? वयं ह्यानन्त्यव्यभिचारादिदोषाद्दर्शनपक्षेऽसपक्षादर्शनसाधनार्थमवृक्षायभावो वृक्षादिशब्दार्थ इति कल्पयामः, दर्शनस्यैवाभावात्तदोषासंस्पर्शात्, अदर्शनमात्रस्याभिन्नत्वादित्यत्रोच्यते नन्वदर्शनादिति दर्शनस्यैव सिद्धिरेवम्, अदर्शनस्यादर्शनात्, यदि दर्शनमन्वयो नाभ्युपगम्यते न वृक्षो नाम कश्चित् स्यात् तत इदमदर्शनमेवाभावमात्रं खपुष्पादिवन किश्चिदुक्तं स्यात्, अवृक्षस्यैव चाभावो वृक्षीभूतत्वात् सर्वस्य कुतस्तद्दर्शनम्, वृक्षदर्शनबलादेव वाऽवृक्षदर्शनसिद्धिः, वृक्षावृक्षदर्शनाचायं वृक्षोऽयं घटादिरवृक्ष इति सिद्धिर्नादृष्ट इति दर्शनमेवैवं सिद्धयति।
अपितृवदवृक्षादर्शनं व्यतिरेकत इति चेन्न, उक्तवत् पितृकल्पस्य दर्शनमत्रापि स्यात्, न चेत् प्रागुक्तवदेवानुपपत्तिः, व्यवस्थाकारिदर्शनेनायं वृक्षोऽयमन्योऽस्माद्धटादिरवृक्ष इति व्यवस्थिते हि विधेये वृक्षेऽदर्शने त्ववृक्ष इति स्यात्।
___ स तु तव तदा स्यायदाऽनवस्थावारणाय व्यावर्त्यव्यावर्त्तकयो -विधिना व्यवस्थापकं दर्शनं भवेत्, तच्च नेष्यत एव, विधिप्राधान्ये तु पृथिवीत्वाद्युत्तरभावा वृक्षादिपूर्वभवनविज्ञानविध्यापायाः दृष्टाः वृक्षायात्मकत्वावृक्षादिस्वात्मवत्, वृक्षादिपूर्वभावः पृथिव्यायुत्तरभवनविज्ञानविध्यापायाः तदनतिरिक्तात्मकत्वात् वृक्षम्लादिवत् एवं विधिरूपेण दृष्टवदेवानुमानमभिधानश्च युज्यते।
व्यावृत्तिप्राधान्ये तु दृष्टवत् पार्थिवत्वायसिद्धौ वृक्षो नैव . वृक्षादि स्यात् तोयवत्, पार्थिवं द्रव्यत्वेनासिद्धत्वात् पार्थिवं नैव स्याद्गुणवत्, एवं द्रव्यं द्रव्यं न स्यात् सत्त्वेनासिद्धत्वात्

Page Navigation
1 ... 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416