________________
२९०
द्वादशारनयचक्रे मानोऽन्यापोहस्तदपोह एव भवति नान्यापोह इति स्ववचनाद्यशेषपक्षविरोधापत्तिः, विधिवादापत्तिश्चैवम्, अथान्यापोह इति चानन्यो ऽपोहो न भवतीत्यपि न परिहार एव, अन्यापोह इत्यनन्याभावापोहो न भवति, यतोऽर्थान्तरापोहेन स्वार्थेऽपोहे वृत्त्यर्थेऽन्यविशिष्टोऽपोह इति।
यथाऽपोह इत्यनपोहो न भवति तथा अन्यापोह इत्युक्तेऽन्याभावार्थान्यशब्दतायां सत्यामनन्याभावस्य व्यावृत्तेरपोहो भवतीत्यन्यापोहार्थः संवृत्तः, तस्य चेदनन्याभावस्यान्यस्यापोहो न भवति न तहनन्यस्यानपोहो न भवति तत्प्रतिपक्षत्वादनन्यानपोहस्येति, तथेहानन्य इत्यन्यशब्दार्थे त्वदीयेऽन्यापोह इति नान्याभावस्यापोहो न भवति, किन्तु स्वाभावस्यापोहो न भवतीत्यन्यापोह एव न भवति, किन्तु अनन्यापोहः स्वापोह एवेत्यनिष्टः ते प्राप्तः, अन्यस्यैवापोहो नानन्यस्येत्यवधारणानैष दोष इति तन्न, तत्रापि कोऽन्यः? कोऽनन्यः? कोऽपोहः? कोऽनपोहः? इति विचारणायामनन्याभाव एव, उक्तवदनवधारणात् विधिवादापत्तेः सर्वथाऽ न्यापोहनैर्मूल्यमिति स्थितमेतत्, अनन्याभावस्यापोहो न भवतीति।
एवं प्रक्रमेऽपि च न स कश्चिदर्थो भविता, उभयतोऽप्यभावप्रसङ्गात्, स्वार्थस्यांशोऽपि न दृश्यत एव, अनन्यो न भवतीत्युच्यमाने उभयतोऽपि न भवति न भवतीत्यनन्यस्याव्यावृत्तिरेव, न कश्चिद्विधिगन्धोऽपीत्यन्यथावृत्तेरभवनपरमार्थत्वात् अभूतस्वानन्यत्वाद्वन्ध्यापुत्रवदविषय एव, स च निबन्धनमन्यापोहस्य स्यात्, येषामपि चार्थान्तराणां मध्ये यत्तदर्थान्तरं तत् किं भवदेव भवति?