Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 183
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । १७९ HH नीरधेरपि गम्भीरो, धीरो मो(म)रुगिरेरपि । सोमादपि महासौम्या, प्रतापी तपनादपि ॥७॥ उदारस्फारशृङ्गारः, परनारीसहोदरः । सत्यवाक् शरणाऽऽयातवज्रपमरसंनिभः ॥८॥ निभिविशेषकम् ॥ कुमारोऽन्येधुरुधाने, गतः क्रीडाप्रसङ्गतः । गुणाकराचार्यगिरं, शुश्राव श्रवणामृतम् ॥९॥ अपारे भवकान्तारे, माणिनां भ्रमतां सताम् । कर्मलाघवतोऽना, जायते मानुषी गतिः ॥१०॥ इन्द्रजालोपमे जीवितव्ये द्रव्ये विनापरे । मतिर्भवति चारित्रे, केषाश्चिदपि धीमताम् ॥११॥ एवमादि गुरोवा(वा)णी, तूर्णमाकर्ण्य स व्रतम् । सरस्वत्या महासत्या, भगिन्या सममग्रहीत् ॥१२॥ गीतार्थो गुणसंयुक्तः, श्रीगुणाकरमरिमिः । क्रमात् सूरिपद(देs)स्थापि पापिनामपि बोधकृत् ॥१३॥ सपो निष्कपटं कुर्वन् , भन्याली स विबोधयन् । विहरन् वसुधापीठे, जमामोजयिनी पुरीम् ॥१४॥ तस्योपवनसंस्थस्य, समायान्ति पुरीजनाः । धर्मवाणी रसेनाऽऽद्री, गीति श्रोतुं ममा इव ॥१५॥ इतश्च दैवयोगेन, तदा साध्वीसमागमः । बभूव तत्र जायेत, नान्यथा भवितव्यता ॥१६॥ अन्यदा बहिरुधाने, साक्षादिव सरस्वतीम् । सरखतीं सती प्रेक्ष्य, कामं कामलिताऽऽशयः ॥१७॥ ममाऽन्तःपुरयोग्येयमित्युक्त्वा मालवेश्वरः । गर्दभिल्लनृपो मिल्लसमानोऽशुभकर्मभिः ॥१८॥ दीनां चिल्लीमिव श्येनो, जानकीमिव रावणः । तामपाहरदन्यायपथपान्यः स पापी[:] ॥१९॥ विहला विललापे(१)वं, सती तेन इता सती । हा वीतरागसर्वक !, हा दैव ! किं भविष्यति ॥२०॥ हा श्रीगुणाकराचार्य !, हा कालकसहोदर ! । हा तात वैरिसिंहाऽऽख्य !, हा मातः मुरकुन्दरि ! ॥२॥ मदीयं चरणद्रव्यं, हरन्तं पश्यतोहम् ।। निवारयति सर्वेऽपि, गर्दमिल्लं कुम्पतिम् ॥२२॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237