Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०१
श्रीसमयसुन्दरगणिविरचिता
तपान्यो तउही कांचण, घस्यउ तउही चंदण । लहुडउ तउही सीह, धुंधलउ तउही दीह । नान्ही तउही नागिणी, निरसी तउही सोहागणी'।
ततो यदि एतामितोऽपहृत्य ममान्तःपुरे मुश्चामि, स्नान-मजनादि सम्यगुपचरामि, मनोज्ञाहारादिना पोषयामि, तदा मम स्त्रीरत्नं भविष्यति । एतां विना च मम राज्यश्रीरपि निष्फला, मम जीवितं च वृथा ज्ञेयम्-इत्येवं ता कामग्रहप्रस्तेन गर्दभिल्लेन श्येनेन चटकेव निजसेवकपार्थाद् नानाविधं विलपन्तीमुत्पाटयित्वा निजान्तःपुरे क्षिप्ता। विलापस्त्वेवम्-हे बान्धव! हे सुगुरो ! हे अनेकगुणप्रधान ! हे चतुरबुद्धिनिधान ! हे जिनशासननायक ! हे भव्यजीवसुखदायक ! हे जिनशासनशृङ्गार ! हे गच्छाधार! हे आगमस्याकर ! हे करुणासागर ! हे भ्रातः ! हे कालिकाचार्य ! गर्दभिल्लेन राज्ञा पापिष्ठेन शीलखण्डनेच्छानिष्ठेन मम सर्वथाऽप्यनिष्टेन मामनाथामिवापहरन्ती रक्ष रक्ष इति । तदा अन्या अपि साध्व्यः पूत्कारं चक्रुः । लोका अपि हाहाकारं वितेनिरे । ततो महाकोलाहलो जातः । ततः शीघ्रं साध्वीभिः सर्वोऽपि वृत्तान्तः श्रीकालिकाचार्यस्य निवेदितः-भवदीयभगिनी सरस्वती साध्वी गर्दभिल्लेनापहृत्य निजान्तःपुरे क्षिप्ताऽस्ति । न ज्ञायतेऽथ क भविष्यति ।
___ ततः श्रीकालिकाचार्याः कोपाक्रान्ताः कतिपयशिष्यैः सहिता राजपाचे जग्मुः । सौम्यशीतलन्यायवचनैः प्रोक्तम्हे राजन् ! एषा साध्वी मम भगिनी, तत्रापि शीलवती, तत्रापि पश्चमहाव्रतधारिणी, एतस्या वैमनस्यकरणे महाकर्मबन्धो भविष्यति । अपि चान्योऽपि नगरमध्ये दुष्टमतिः दुःशीलश्च भविष्यति स तव निवायों भविष्यति, परं यदि त्वमेवान्यायं करिष्यसि तदा तव निवारकः को भविता ! अपि च यत्र नगरे राजैव चौरोऽन्यायी च तत्र लोका नगरं मुत्क्वा वनमेव भजन्ति । यदुक्तम्
यत्रास्ति राजा स्वयमेव चौरो, भाण्डीवहो या पुरोहितश्च ।
वनं भजध्वं ननु नागरा भो !, यतः शरण्याद् भयमत्र जातम् ॥१६॥ इति । पुनः कालिकाचार्यैः प्रोक्तम्-हे राजन् ! अन्तःपुरे बहल्यो रूपवत्यश्चातुर्यकलावत्यो युवत्यो रमणीयाः सन्ति, तासामुपरि संतोषं कुरु, परं माऽनयाऽस्थिमात्रया मलमलिनगात्र्याऽतिजीर्णवस्त्रया साध्या समं किं सुखमनुभविष्यसि । ततो मुश्चनां यथा धर्मशालायां गत्वा एषा संयम पालयिष्यति । एतादृशानि श्रीकालिकाचार्यवचनानि श्रुत्वा गर्दभिल्लो मौनमाधाय श्रुतमप्यश्रुतं कृत्वा स्थितः, समुत्थाय चान्तःपुरे गतः । ततः श्रीकालिकाचायश्चिन्तितम्-अथ कोऽपि नवीन उपायः क्रियते । ततः श्रीकालिकाचार्या उपाश्रयमागत्य सङ्घाने सर्वस्वरूपं प्रोक्तवन्तः । ततः सङ्कन चिन्तितम्-आचार्यवचनं न मानितम्, परमस्मद्वचनं मानयिष्यति । ततः प्रभूतं प्रामृतं लात्वा सद्योऽपि भूपाने गतः । राज्ञा पृष्टम् कथं भो! महाजनैः समागतम् !, किं कार्यम् !। संघेनोक्तम्-त्वं मालवकदेशस्वामी तवेदृशं कुकर्म कर्तुं न युक्तम् । यतो राजा पितेव प्रजाः प्रतिपालयति, विशेषतो दर्शनिनां तपस्विनां वर्गम्, ततो मुञ्चेमा साध्वीम्, इत्यादि बहुतरं प्रोक्तम्, परं स कुकर्मा कामी राजा न मुश्चति । ततः संघेन यथागतेन तथाऽऽगतेन श्रीसूरीणां प्रोक्तम् । ततः श्रीकालिकाचार्येण कोपाक्रान्तेन संघाने प्रोक्तम्-अहं समर्थः सन् जिनशासनप्रत्यनीकानां यदि शिक्षा न दधि, तदा जिनाज्ञाविरोधकत्वेन दुर्गतिकः स्याम् । यदुक्तम्
ये प्रत्यनीका जिनशासनस्य, संघस्य ये चाशुभवर्णवाचः ।
उपेक्षकोडाइकरा धरायां, तेषामहं यामि गति सदैव ॥१७॥ ततः प्रतिज्ञा चक्र-यदाऽहं गर्दभिल्लं सराज्यं नोन्मूलयामि तदाऽहं न कालिकाचार्यः । ततः स्वगच्छभारं गीतार्थेषु स्थापयित्वा स्वयमप्रथिलोऽपि प्रथिलीभूय कर्दमादिना गोत्रमनुलिम्पन्, नगरमध्ये भ्रमन् , वक्ति-यदि गर्दभिल्लो
For Private And Personal Use Only

Page Navigation
1 ... 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237