Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 221
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१७ कालिकाचार्यकथा । उक्तं च यत्र देवर्षिपूजादेः, क्रियतेऽतिक्रमः कचित् । तचेत् संसहते राजा, घोरं तत्र भयं भवेत् ॥९॥ राजाऽवक्-कि क्रियते ! गुरवः सुस्थिताः, तेषां चलनविषये वक्तुं न युक्तम् । पुरोहितोऽवक्-गृहे गृहे नवीना वयाँ रसवती कार्यते । यदा साधको विहर्तुमायान्ति तदोच्यते-श्रीपूज्यपादकृते रसवती कृताऽस्ति । ततोऽनेषणां ज्ञात्वा गुरवो स्वयमन्यत्र गमिष्यन्ति । भूपेन तथा कारिते गुरवः प्रतिष्ठानपुरे चातुर्मासकमध्ये गताः । प्रवेशमहोत्सवोऽभूत् । तत्र शालिवाहनो भूपः पृथ्वी पालयति स्म । पयुषणापर्व समीपं समायातम् । तत्र भूपोऽवक्-भगवन् ! पर्युषणापर्व कस्मिन् दिने करिष्यते । गुरवो जगुः-भाद्रसुदिपश्चम्याम् । तदा भपोऽवक्-पश्चम्यामनेन्द्रमहोत्सवो भवति, तेन पर्युषणापर्व एकस्मिन् दिने कथं करिष्यते । भादसुदिपश्चम्या अर्वाक् पश्चाद् वा भवति तदाऽहं पर्युषणापर्वणि तपोनियमजिनालयोत्सवादि करोमि । तदा गुरवो जगुःभादसुदिपञ्चम्याः पुरतः प्रहरेऽपि न क्रियतेऽर्वाक् तु भवति । उक्तं च" तेणं काणेणं तेणं समएणं समणे भगवं महावीर वासाणं सवीसइमासे वइकते वासावासं पज्जोसर्वति" उक्तं च आसाढपुन्निमाए, संवच्छरियसामग्गि होइ पज्जोसवणा । तत्तो सावणपंचमिमाइसु असिवाइकारणओ ॥१०॥ इत्यादि। इत्य य पणगं पणगं, करणीयं जाव वीसई मासो । मुद्धदसमिइ ठिआण य, आसादीपुत्रिमोसरणं ॥११॥ इत्यादि । यदि चतुर्थी क्रियते तदा घटते । ततो राजा प्रतिपदिने उत्तरपारणकं चकार । श्राद्धा अपि तथा चक्रुः । ततः सर्वाचार्यसंमतं पर्युषणापर्व श्रीकालिकसूरिभिः कृतम् । ततः सर्वैः सूरिभिस्तथा पर्युषणापर्व चक्रे । यतः अविलंबिऊण कर्ज, जं किंचि वि आयरंति गीयत्या । थोवावराहबहुगुणं, सव्वेसि तं पमाणंति ॥१२॥ आयरणा वि हु आणा, अविरूदा होइ चेव आण ति । इयरा तित्थयरासायण ति तल्लक्षणं चेवं ॥१३॥ असढेण समाइन्नं, जं कत्यइ केणई असावज्ज । न निवारियमन्नेहि, बहुमणुमयमेवमायरिअं ॥१४॥ कदाचिद्वन्त्यां कालिकसूरयः स्थिताः, तत्र प्रमादपरान् साधून दृष्ट्वा जगुः भो साधवो मनाग नैव, प्रमादः क्रियते व्रते । प्रमादः पातयत्येव, यति संसारसागरे ॥१५॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237