Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 224
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० श्रीशुभशीलगणिविरचिता ऽभूत् । तस्कचोलकं मस्तके कृत्वा साधनसिंहस्य सेवकस्य सन्मानं कृत्वोत्तारकं ददौ । ततो रहसि कालिकाचार्यः शकं पप्रच्छ कञ्चोलकागमनवृतान्तम् । ततो राज्ञोक्तम्-अस्माकं षण्णवतिभूपानामेको मुख्यमूपः साधनसिंहोऽस्ति बली। स च यदास्माकं राज्ययोग्याङ्गजो भवति, तदा स भूपः कच्चोलकं क्षुरीयुतं प्रेषयति, तदा शीर्ष क्षुर्या छित्वा प्रष्यते । ततः सूरिराह-एवं को मूखों निजं शिरो दत्ते ! । जीवद्भिः सुखं लभ्यते । ततो राजावक्-कि क्रियतेऽस्माभिः ! ततः सूरिराहयदि मम कथितं क्रियते, तदा वो जीवितं भवति चिरम् । ततो भूपोऽवक्-कथयास्माकं जीवनोपायम् , त्वं तु विज्ञोऽसि । ततः सूरिराह-उज्जयिनी पुरी वस्ति, तत्र षण्णवतिमाः सन्ति, तेन तत्र यूयं सर्वे भूपाः मया सार्द्धमागच्छन्तु । भवतामुज्जयिन्या राज्यं दास्यते मया । आकारयतु भवान् भूपान् सर्वान् । ततो विचारं कृत्वा षण्णवतिभूपाः स्वतुरङ्गमपत्तिकुटुम्बयुताश्चेलः । धर्मनि तेषां वर्षाकाल: समायात् । ततो ढङ्कपर्वतपाइँ सुराष्ट्रामध्यस्थे ते भपास्तस्थुः । शम्बलक्षीणा भूपा जगुः-भो कालिकावधूत ! शम्बलं विना कथमुज्जयिन्यां गम्यते, तत्रत्यं राज्यं च ग्रहीष्यते ! । सरिः प्राह-स्थिर स्थीयताम्, सर्व वयं भविष्यति । तदा सरस्वत्या आचाम्लतपस्करणस्वरूपं शासनदेव्या प्रोकम् । ततः [गुरुणा] चूर्णेनेष्टिकानिवाहं स्वर्णीकृत्य सर्वेषां भूपानां विभज्य ददौ सूरिः। ततः सर्वे भूपा सुस्थिता बभूवुः । ततः सूरिणा शिबिरं चालितम् गुर्जरातमध्ये भूत्वोज्जयिनीपार्वे ययौ । तदा गर्दभिल्लो भूपः संमुखमागत्य युद्धं कुर्वाणं वैरिबलं महद् दृष्ट्वा गर्दभिल्लो विद्यां साधयितुमुपविष्टः । तदा सूरिभिर्गर्दभिल्लो(भी) विद्या साधयन्तं गर्दमिळं भूपं ज्ञात्वा प्रोक्तम्-असौ भूपोऽप्रेतन्यामष्टम्यां गर्दभिल्ली(भी) विद्या साधयिष्यति । सा च यदा वोपरि चटित्या शब्दं करोति, तदा यः शब्दं श्रोष्यति स मरिष्यति । अतः कारणादष्टोत्तरशतं शब्दवेधिनो मया सह तिष्ठन्तु, शिबिरं गव्यूतद्वये स्याप्यते तदा यदाऽहं बाणं मुश्चामि तदा १०७ बाणवेधिभिर्वाणा मोचनीयाः । गर्दभीविद्यायाः शब्दं कुर्वाणाया मुखं बाणैर्भरिष्यते । ततो रुषा राजानं पदाभ्यां हत्वा मुखे नीति कृत्वा गमिष्यति । राजा मरिष्यति, राज्यं ग्रहीष्यते । एवं स सरिः शब्दवेध्यादिनरान् मीलयित्वा गर्दभिल्लं जिगाय । शकसाहाय्यादुज्जयिन्या राज्यं वृदशकाय सूरिर्ददौ सर्वम् । ततः सरिः सरस्वती सुशीलामन्तःपुरादानिनाय । सर्वेषां भूपानां पृथक् पृथग् देशान् विभज्य ददौ सूरिः । यस्य राज्ञः पावें स्थितस्तस्योज्जयिनीराज्यं ददौ सरिरथवा स्वभागिनेयस्य ददौ । ततो गुरुपाचे गत्वा श्रीकालिकाचार्यः प्रायश्चित्तं गृहीत्वा पुनर्षे गृहीत्वा चिरं भव्यजीवान् प्रबोध्य स्वर्गसुखं प्राप । सरस्वत्यपि चारित्रं प्रपाल्य स्वर्ग गताः ॥ इति कालिकसरिकथा समाप्ता ॥ प्रन्थकारप्रशस्ति: श्रीचन्द्रगच्छाम्बरभूषकोऽभूत्, तपागणो भानुरिवोद्धदीप्तिः । प्रबोधयन् भव्यजनाम्बुजाली, स्वगोविलासैरिव साधुवगैः ॥१॥ तत्राभवन् वरगुणगणमणिरोहणमहीधरपतिमाः । परमगुरुसोमसुन्दरगुरवः संयमरमापतयः ॥२॥ तच्छिष्या मुनिमुन्दरगुरवो जयचन्द्रसूरयोऽभूवन् । पारगतागमजलनिधिपारगता रुचिरगुणनिलयाः ॥३॥ तच्छिष्या विजयन्ते, धतः श्रीमरिमन्त्रमहिमभरम् । श्रीयुक्तरत्नशेखरगुरव उदयनन्दिपरिवराः ॥४॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237