Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । 'विक्रेष्यन्ते । तत इन्द्रः [पाषाणी]शाला[याः] चतुरशीतिस्तम्भाया द्वार परावृत्य गतः । साधवो विहृत्यागता द्वारमन्यत्र दृष्ट्या जगुः-भगवन् ! द्वारमेवं कथमभूत् ! । ततो गुरुभिरिन्द्रागमनादिस्वरूपं प्रोक्तम् । साधवो जगुः-यदीन्द्रोऽस्थास्यत् तदा वयं तं दृष्टा पुण्यं विशेषतोऽकार्म।
प्रभावनां वितन्वानो, जिनेन्द्रशासने सदा ।
लभतेऽत्र परप्रापि, सुखं कालिकसरिवत् ॥२२॥ तथाहि-मगधदेशे धारावासपुरे वज्रसिंहभूपस्य सुरसुन्दरी प्रियाऽभूत् । पुत्रः कालिककुमारोऽभूत् । पुत्री सरस्वती च । एकदा कालिककुमारो राजपुरुषयुतः क्रीडायै वने गतः । तत्र गुणन्धरसूरिं वन्दते स्म । तत्रोपदेशः श्रुतः
माणुस्सखित्तजाई, कुलरूवारुग्गमाउअं बुद्धी ।
सवणग्गहणं सद्धा, संजमो लोगम्मि दुलहाई ॥२३॥ इत्यादि धर्म श्रुत्वा प्रबुद्धो मातापितरौ पर्यवसाप्य सरस्वत्या भगिन्या युतो गुरुपाचे कुमारो व्रतं ललौ । गुरुपाचे कालिककुमारः पठन् साहित्य-तर्क-लक्षण-छन्दोऽलङ्कार-नाटकायागमशास्त्रकुशलोऽभूत् । श्रीगुणन्धरसूरिभियोग्यं मत्वा कालिकसाधोः सूरिपदं ददे । विहारं भूमण्डले कुर्वन् प्रबोधयति स्म । .
अन्यदा कालिकसूरिहजयिन्यां बहिस्थाने समवासार्षीत् । तदा सरस्वती साध्वी प्राप्तप्रवर्तिनीपदा पुरमध्ये यियासुर्गुरून् प्रणम्य पुरद्वारे समागात् । तदा तत्रत्यो गर्दभिल्लो गजा पुराद्' बहिनिस्सरन् सरस्वती साध्वी वि(प्र)लपन्ती रूपशालिनी वीक्ष्य रागातुरः स्वान्तःपुरे बलात् क्षेपयामास। गुरुणा गर्दभिल्लभूपस्य कृतं ज्ञातम् । ततो गुरुणा श्रीसंघः प्रेषितः । साध्वीवालनार्थ राजपाचे गत्वा प्राह-महासतीयं मुच्यताम् । तपोधनाः तपस्विन्यो राज्ञो यस्य भूमौ तपः कुर्वन्ति, तस्य पुण्यविभागो राज्ञः समेति । तेन स्वामिन्नियं मुच्यताम् । त्वं प्रजापालोऽसि । तपस्विनां तु भूप एवाधारोऽस्ति । यतः
नरेश्वरभुजच्छायामाश्रित्याश्रयिणः सुखम् ।
निर्भयाः सर्वकार्याणि, धर्मादीनि वितन्वते ॥२४॥ एवं श्रीसंघेनोक्तो भूपः प्राह-नाहमिमां मुञ्चे, उपदेशः स्वगृहे दीयते, भूपस्याने न दीयते एवंविधः । ततः गुरुभिर्भपपार्वे गत्वोक्तम्-इयं तपस्विनी मम भगिन्यस्ति तेन मुच्यताम् , स्वं प्रजापालोऽसि त्वमाधारस्तपस्विनाम् । ततो गुरुक्ते यदा राजा न मुञ्चति सरस्वती तदा गुरवः स्वस्थानेऽभ्येत्य श्रीसंघमाकार्य प्राह-अयं दुष्टो राजा सरस्वती जहार, अस्य शिक्षा दीयते । यदि सति सामर्थे जिनमतप्रतिकूलं यो न हन्ति तस्य पाराञ्चितं पापं लगति । यतः
देव-गुरु-संघकज्जे, चुनिज्जा चक्कवट्टिसिन्नं पि ।
कुविओ मुणी महप्पा, पुलायलदीइ संपन्नो ॥२५॥ इत्यायुक्त्वा स्ववेषं साधूनां समर्म्य श्रीसंघ मुत्कलाप्य शकले गतः । तत्र स्वकलां दर्शयित्वा राज्ञो मिलितः । सुभाषितैः भूपं रञ्जयामास । कालिकसूरिणा रञ्जितो राजा जगौ-भवतो यत् कार्य विद्यते तनिगद्यताम् । गुरुः प्राहअवसरे कथयिष्यते ।
एकदा शकभूपतेः सभायामुपविष्टस्य साधनसिंहभूपेन कचोलकं क्षुरीयुतं प्रेषित समागतम् , तदा राजा कृष्णमुखो
For Private And Personal Use Only

Page Navigation
1 ... 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237