Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
२१८
उक्तं च-
www.kobatirth.org
श्री शुभशील गणिविरचिता
कालिकसूरिराह
चउदसपुब्बी आहारगा य, मणनाणिवीयरागा य । हुति पमायपरवसा, तयणंतरमेव चरगइआ ॥ १६ ॥ न तं चोरा विलुपंति, न तं अग्गी विणासए । न तं जुएण हरिज्जा, जं धम्मम्मि पमत्तओ ||१७||
एवं नोदिता गुरुभिः साधवो न प्रमादं तत्यजुः । ततो गुरवो दध्युः - अमी साधवः प्रमादिनस्याज्या एव । यतः
छंदेण गओ छंदेण आगओ चिट्ठए य छंदेण ।
छंदे य वट्टमाणो, सीसो छंदेण मोत्तव्बो ॥१८॥
एवं ध्यात्वा साधून् प्रमादं त्याजयितुं शय्यातरस्य श्राद्धस्य शिक्षां दत्वा गुरवो रात्रौ छन्नं निर्गत्य सुवर्णभूमौ स्वशिष्यसागरचन्द्रसमीपे ययुः । तदा वृद्धं साधुमागच्छन्तं दृष्ट्वाऽभ्युत्थाय सागरचन्द्रसूरिः प्राह-अस्मिन् विजने भवद्भिः स्थीयताम् । ततो गुरुवस्तत्र स्थिताः । सागरचन्द्रेण नोपलक्ष्यन्ते । व्याख्यानं कृत्वा सागरचन्द्रसूरिः प्राह - मयाऽध व्याख्यानं कीदृक् कृतम् । गुखो जगुः - विशिष्टम् । ततः सागरचन्द्रः स्वव्याख्यानकल्या हृष्टः । ततो द्वाभ्यां सुरभ्यां धर्मस्थापनोत्थापनाभ्यां विवादः कृतः । सागरः प्राह
Acharya Shri Kailassagarsuri Gyanmandir
नैवास्ति धर्मः परलोकशर्मकृत्, न तावदास्ते परलोक एव सः । साक्षादभावात् परलोकिनस्ततः, पुण्यस्य पापस्य भुनक्तु कः फलम् ? ॥१९॥
अहं सुखी दुःख्यभूवमित्युदित्वरः, संप्रत्ययः कस्यचनापि जातुचित् । नायं समुन्मीलति भूतसंचयाधिकं विनाऽऽत्मानमबाधयाऽन्वितम् ||२०|| आत्माऽस्य संवेदनतः प्रतीयते, स्वाङ्गे परान् प्रत्यनुमानतोऽसुतः । तथा च सर्वत्र हि बुद्धिपूर्वकोत्थायाः कृपाया उपलम्भतः खलु ॥२१॥
इतो यतयः पश्चाद्रात्रावुत्थिता यावद् गुरून् शब्दयन्ति तावत् कोऽप्युत्तरं न वदति । ततः शून्यचित्ताः शय्या तरं श्रावकं पृच्छन्ति स्म । गुरवः कुत्र सन्ति । स प्राह- अहं किं जाने, यूयमेवात्मनो गुरूणां स्थितिं न जानीथ ! । ततस्ताडिताः शय्यातरेणेति साधवः । गुरवो युष्माननुक्त्वा गताः, गुरूणां स्थितिरुक्ता । ततस्ते साधवः प्रमादं त्यक्त्वा गुरूक्तविधिना चारित्रं पालयन्ति स्म । गुरुभिर्वाल्लुकाभिर्भरणिकं कृत्वा पुना रिक्तीकृत्य पुनर्भूत्वाऽर्द्धभरणिकं बालुकानां दर्शयित्वा प्रोक्तम् - गौतमस्वामिपार्श्वात् पतन्ती विद्या वर्त्तते वालुकान्यूनदर्शनात् ॥
( ५ )
एकदा कालकसूरिः प्रतिष्ठानपुरे चतुर्मास स्थिताः सन्ति । तदा प्रथमस्वर्गस्वामीन्द्रो महाविदेहक्षेत्रे श्री सीमन्धरं नन्तुं गतः। तत्र श्रीसीमन्धरोऽकथयत्-भरतक्षेत्रे शत्रुञ्जयतीर्थ सर्वतीर्थेभ्य उत्कृष्टं समस्ति । कालिकसूरिर्यादृशं निगोदस्वरूपं कथयति तादृशोऽन्यः कोऽपि तत्र नास्ति । तत इन्द्रो वृद्धविप्ररूपं कृत्वा सार्द्धं प्रहरसमये गुरुपार्श्वे समागात् । गुरुं प्रणम्य विप्रको जगौ - अहं वृद्धोऽभूवम् ममायुः कियदस्ति । अहमनशनं जिघृक्षुरस्मि । ततो गुरुभिर्विलोक्य ज्ञानेनोक्तम्तव सागरद्वयमितमायुरस्ति । तत इन्द्रेण स्वरूपं प्रकटीकृतम् । निनोदविचारो यादृशः श्रीसीमन्धरस्वामिना प्रोक: तादृशो गुरुणाऽप्युक्तः । तत इन्द्रोऽवक्-त्वं शत्रुञ्जयतीचे भरते प्रोकं श्रीसीमन्धरस्वामिना [ ततस्तुभ्यं ] नमः । तत इन्द्रोऽवकू यावत् साधव आयान्ति तावत् स्थास्याम्यहम् । गुखो जगुः - तव रूपं दृष्ट्वा साधवो निदानं करिष्यन्ति बाधारघट्ट
For Private And Personal Use Only

Page Navigation
1 ... 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237