Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 220
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीशुभशीलगणिविरचिता राजचक्रं समाक्रम्य, दद्रुगू(दुर्दुरु)ढोऽतिमूढधीः । अविनीतः प्रकृत्याभूत्, दत्तो द्वेषस्य भाजनम् ॥४॥ स दत्तो राजा यागं कारयन् भूरिजीवान् निरन्तरं हन्ति । यथा यथा यागे हन्यमानानां पशूनां रुधिरप्रवाहः प्रससार तथा तथा स दत्तो राजा जहर्ष । अन्यदा श्रीसूरिपदप्राप्तः कालिकाचार्यस्तत्रागात् । तमागतं तत्र सूरिं श्रुत्वा दत्तस्तत्राययौ । तेन राज्ञाऽन्यदा यज्ञफलं पृष्टो गुरुरुवाच-धर्मात् त्रिविष्टपप्राप्तिरधर्मानरकप्राप्तिध्रुवम् । ततो भूयोऽपि तेन राज्ञा यज्ञफलं पृष्टो गुरुर्नरकमादिदेश । तव श्वभ्रगतिर्भविष्यति । यतः-- अस्थि वसति रुद्रश्च, मांसे वसति जनार्दनः । शुक्रे वसति ब्रह्मा च, तस्मान्मासं न मक्षयेत् ॥५॥ तिलकसर्षपमानं तु, मांसं यो भक्षयेन्नरः । स निर्वर्तते नरकं, यावच्चन्द्रदिवाकरौ ॥६॥ भो राजन् ! सप्तदिनमध्ये यदि तवानने विष्टालेश: पतिष्यति तदा त्वया ज्ञातव्यं नरकगति: स्वस्य । तदा रुष्टो राजाऽवग-भो मातुल ! तव का गतिर्भविष्यति !। गुरुराचष्ट-अहं व्रतं प्रपाल्य स्वर्ग यास्यामि । तदानी दत्तेन स्वसेवकपार्थादसिना हन्यमानोऽपि श्रीकालिकाचार्यो जगौ-यागो नरकाय भवति । उक्त च दत्तेण पुच्छिओ जो, जन्नफलं कालओ तुरमिणीए । समयाहियाहिएणं, सम्म बुझ्यं मयतेणं ॥७॥ दत्तेन ध्यातं यद्यहं सप्तदिनेभ्यः पुरतो जीविष्यामि तदा कालिकाचार्यममुं हनिष्यामि । ततस्तस्य सूरेरन्तिके स्वसेवकान् मुक्त्वा स दुष्टमतिर्दत्तः सौधमध्ये सप्तदिनानि स्थातुं स्थितः । इतो जितशत्रुभूपभक्तर्जितशत्रुभूपो राज्यदानार्थ प्रकटीचक्रे प्रच्छन्नम् । इतो रक्ष्यमाणेषु राजमार्गेषु अशुचिषु वस्तुषु अपसार्यमाणेषु सप्तमे दिने दत्तो राजा हृष्टतुरगारूढोऽष्टमदिनभ्रान्त्या ध्रियमाणातपत्रो राजमार्ग निस्ससार। इतो मालिकः पुष्पपूर्णकरण्डयुतो राजमार्गे समागात् । मेर्यादिनिनादैः श्रुतमात्रैरकस्मात् तस्यात्यन्तं मलोत्सर्गचिन्ताऽभून्मालिकस्य । लोकबाहुल्यादन्यत्र गन्तुमशक्नुवन् लब्धलक्षतया त्वरितं मलोत्सर्ग तत्रैव कृत्वा तस्योपरि पुष्पपुलं मुक्त्वा मालिकोऽप्रतो गतः । तदा राज्ञो दत्तस्य तस्मिन् मार्गे गच्छतस्तुरङ्गमखुरोत्खातो विट्लेशो वदनेऽविशत् । स राजा दत्तस्तेन प्रत्ययेन पश्चाद यावद् गृहाभिमुखं समायाति, तावन्मन्त्रिनियुक्तैः सेवकैदत्तो हतः । स दत्तो मृत्वा सप्तमं नरकं गतः । स जितशत्रुभूपः स्वराज्ये उपविष्टः । ततस्तं कालकाचार्य भूपो निषेवते स्म, जिनधर्म चाङ्गीचकार । (२) श्रीपुरे प्रजापालभूपस्य राज्ञी पुत्रं प्रासूत । तस्याभिधानं कालिककुमार इत्यभूत् । पुत्री तु भानुश्रीरासीत् । कालिककुमारः श्रीगुरुपार्श्वे धर्म श्रुत्वा दीक्षां ललौ । स च बहुश्रुतोऽभूत् , गुरुभिः सूरिपदं दत्तम् । इतो राज्ञा भानुश्रीभंगुकच्छे जितारिभूपस्य दत्ता । तस्याः सुतौ बलमित्र-भानुमित्रौ । तयोर्भागिनेयो बलभानुरमृत् । एकदा तत्र गुरवः कालिकसूरय आगताः । तत्र धर्मोपदेशं श्रुत्वा बलभानुर्दीक्षां जंग्राह । तदा गुरुसत्कैः क्षुल्लकैगङ्गाधरः पुरोहितो वादे जितः । एकदा गुरवो विहारं कृत्वा तत्रागताः, बलमित्र-भानुमित्रयोराग्रहाद् गुरवस्तत्र चातुर्मासी स्थिताः । ततो गङ्गाधरपुरोहितस्तान् गुरुन् कर्षितुमिच्छन् पूर्ववैराद् भूपाने छन्नं जगौ-- देव ! इमे जइपुज्जा, भमंति जहिं तत्य गच्छिरम्मि जणे । गुरुपयअकमणकया, होइ अवन्ना 'दुरिअहेऊ ॥८॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237