Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 225
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१ कालिकाचार्यकथा । लक्ष्मीसागरसूरीशाः, सोमदेवाहसूरयः । विद्यन्ते लसद्विद्यावाधिमन्यनमन्दराः ॥५॥ श्रीमन्मुनीशमुनिसुन्दरसूरिराज शिष्यः श्रीमन्मुनीशशुभशील इति प्रमुख्यः । एतां कथा वितनुते स्म नवाम्बरेषु चन्द्रममाणसमये (१५०९) किल विक्रमार्कात् ॥६॥ भरहेस(तेश्व)र-बाहुबलीवृत्तिः शुभशीलविबुधरचितेयम् । शोध्यासुबुद्धिमद्भिर्विबुधैः कूटापसरणतः ॥७॥ अनाभोगादिना किश्चिद, यदत्रोत्सूत्ररोपणम् । चक्रे तदस्तु मे मिथ्यातमोऽईदादिसाक्षिकम् ।।८॥ [२७] श्रीधर्मदासगणिविरचिता उपदेशमालाटीकान्तर्गता कालिकाचार्यकथा ॥ जीअं काऊण पणं, तुरमणिदत्तस्स कालिअज्जेण । अवि य सरीरं चत्तं, न य भणिअमहम्मसंजुत्तं ॥१०५॥ जीयं इति-स्वकीय जीवितं पणं कृत्वा, तुरमणि त्ति तुरमणिनाम्नि नगरे, दत्तस्स त्ति दत्तनाम्नो राज्ञः, कालिकज्जेण कालिकाचार्येण, च पुनः स्वशरीरमपि त्यक्तम् , मनसा स्वदेहोऽपि त्यक्तः । परं अधर्मसंयुक्तं असत्यं वचनं न भणितं न भाषितम् ॥ १०५ ॥ अथात्र कालिकाचार्यसंबन्धो यथा तुरमणिनामनि नगरे जित्रशत्रुनामा नृपः । तत्रैकः कालकनामा विप्रस्तस्य भद्रानाम्ना भगिनी । तस्या दत्तनामा पुत्रः । एकदा कालिकब्राह्मणेन स्वयं बुद्धेन चारित्रं गृहीतम् । क्रमेण आचार्यपदं प्राप्तम् । तदागिनेयो दत्तनामा निरङ्कशो द्युतादिव्यसनाभिभूतो नृपसेवां करोति । कर्मयोगेन राज्ञा तस्य मन्त्रिपदं दत्तम् । लब्धाधिकारेण तेन राजानं बहिः निष्कास्य स्वयं राज्यं गृहीतम् । राजापि तद्भयानष्टः प्रच्छन्नं स्थितवान् । अथ सो दत्तनृपो महाक्रूरकर्मा मिथ्यात्वमोहितोऽनेकान् यागान् कारयति । तदवसरे कालिकाचार्याः समवसताः । तदा भद्रामातुरुपरोधेन दत्तमन्त्रीश्वरोऽपि वन्दनार्थमागतः । गुरुभिर्देशना दत्ता । यतः धर्माद् धनं धनत एव समस्तकामाः, कामेभ्य एव सकलेन्द्रियजं सुखं च । For Private And Personal Use Only

Loading...

Page Navigation
1 ... 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237