Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 208
________________ Shri Mahavir Jain Aradhana Kendra २०४ पुनरपि - www.kobatirth.org श्रीसमयसुन्दरगणिविरचितः विद्या नाम नरस्य रूपमधिकं मच्छमगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं, विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥२२॥ अपि च विद्यावतां परदेशोऽपि स्वदेशः, यदाह कोऽतिभारः समर्थानां किं दूरे व्यवसायिनाम् । को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ||२३|| Acharya Shri Kailassagarsuri Gyanmandir अथ कालकाचार्यास्तत्र तिष्ठन्ति । प्रत्यहं साखीराजस्य समीपे यान्ति, नानाविधचेतश्चमत्कार कारि ज्योतिर्निमितादिविषया राज्ञश्चित्तं रञ्जयति । राजापि अत्यन्तहृष्टतुष्टमनस्को गुरूणामतिबहुमानं दत्ते । एवं च सति गतानि कियन्ति दिनानि । तदवसरे एकदा एको दूत एकं कच्चोलकं छुरिकासहितं लेखं चाम्रे मुक्त्वा राज्ञः प्रणम्य सन्मुखं स्थितः । ततः साखी जो लेखं वचयित्वा तद् विलोक्य च श्याममुखो बभूव । ततः श्रीकालिकाचार्यैरुक्तम् - भवतां स्वामिप्राभृतं समागतम्, तत्र हर्षो विलोक्येत, ततो हर्षस्थाने विषादः कथम् ? । राजा प्राह- अहो महापुरुष ! अथास्माकं मरणरूपं महाभयं जातम् । मरणादप्यधिकं भयं किमपि नास्ति, यतः --- पंथसमा नत्थि जरा, दारिदसमो पराभवो नत्थि । मरणसमं नत्थि भयं, खुहासमा वेयणा नत्थि ॥२४॥ ततः सूरिभिः पृष्टम्-किं सद् भयम् । राजा प्राह-हे भगवन् ! योऽस्माकं कुद्धः स्वामी स साहानुसाही वर्त्तते, तेन कुपितेन लिखितं वर्त्तते, ' यदुतानया छुरिकया निजमस्तकं छित्त्वाऽस्मिन् कवोलके क्षिप्त्वा शीघ्रं मोच्यम्, नोचेत् तव सकुटुम्बस्य क्षयो भावी' । यथा मम तथाऽन्येषामपि मम तुल्यानां ९५ पञ्चनवतिसाखीराजानां दूतो मुक्तोऽस्ति । अतो महाभयम् । किं क्रियते !, कुत्र गम्यते !, कथं छुटयते ? । ततः श्रीकालिकाचार्यैः विचारितम् - अयमवसरः, मम च कार्यम् । ततः स्वास्खीराजाय प्रोक्तम् - हे राजन् ! मा म्रियस्व, मा चिन्तां कुरु, जीवन् नरो भद्रशतानि पश्यति । यथा दृष्टान्तः- भानु मन्त्री दयिता सरस्वती, मूर्ति गता सा नृपकैतवेन । गङ्गातटस्यां पुनरेव लेभे, जीवन् नरो भद्रशतानि पश्येत् ॥ २५ ॥ अत्र समये सति दृष्टान्तो वाच्यः । ततः पञ्चनवतिसा खीराजानः भवान् च सर्वेऽपि एकीभूय मया सार्धे चलन्तु । यथा हिन्दुकदेशे गत्वा गर्दभिनृपमुच्छेद्योज्जयिनीराज्यं विभज्य भवतां समर्प्यते । ततः सूरिवचने प्रतीतिं कृत्वा लेखप्रेषणपूर्व सर्वान् ९५ राज्ञ आहूयैकत्र मिलित्वा प्रयाणढक्कां दापयित्वा सर्वेऽपि ९६ साखराजानः श्रीकालिकाचार्यसहिताश्चलिताः, अग्रे गच्छन्तः सिन्धुनदीमुत्तीर्य, सौराष्ट्रदेशमध्ये सुखेन समागताः । तदवसरे वर्षाकालः प्रादुर्बभूव । स कीदृशः :-- कालइ “ आयो वर्षाकाल चिहुं दिसि घटा उमटी ततकाल | गडडाट मेह गाजर, जाणे नालिगोला वाजइ आभइ वीजलि झबकइ, विरहणीना हीया द्रवकर, पपीहा बोलह वाणिया धान बेचवा वखार खोलह, बोलइ मोर, दादुर करह सोर, अंधार घोर पहसह चोर । कंदर्प करइ जोर, मानिनी श्रीभर्त्तारनइ करइ निहोर, चंद्रसूरिज वादले छाया, पंथिजन For Private And Personal Use Only

Loading...

Page Navigation
1 ... 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237