________________
Shri Mahavir Jain Aradhana Kendra
२०४
पुनरपि -
www.kobatirth.org
श्रीसमयसुन्दरगणिविरचितः
विद्या नाम नरस्य रूपमधिकं मच्छमगुप्तं धनं, विद्या भोगकरी यशःसुखकरी विद्या गुरूणां गुरुः । विद्या बन्धुजनो विदेशगमने विद्या परं दैवतं,
विद्या राजसु पूज्यते न हि धनं विद्याविहीनः पशुः ॥२२॥
अपि च विद्यावतां परदेशोऽपि स्वदेशः, यदाह
कोऽतिभारः समर्थानां किं दूरे व्यवसायिनाम् ।
को विदेशः सुविद्यानां कः परः प्रियवादिनाम् ||२३||
Acharya Shri Kailassagarsuri Gyanmandir
अथ कालकाचार्यास्तत्र तिष्ठन्ति । प्रत्यहं साखीराजस्य समीपे यान्ति, नानाविधचेतश्चमत्कार कारि ज्योतिर्निमितादिविषया राज्ञश्चित्तं रञ्जयति । राजापि अत्यन्तहृष्टतुष्टमनस्को गुरूणामतिबहुमानं दत्ते । एवं च सति गतानि कियन्ति दिनानि । तदवसरे एकदा एको दूत एकं कच्चोलकं छुरिकासहितं लेखं चाम्रे मुक्त्वा राज्ञः प्रणम्य सन्मुखं स्थितः । ततः साखी जो लेखं वचयित्वा तद् विलोक्य च श्याममुखो बभूव । ततः श्रीकालिकाचार्यैरुक्तम् - भवतां स्वामिप्राभृतं समागतम्, तत्र हर्षो विलोक्येत, ततो हर्षस्थाने विषादः कथम् ? । राजा प्राह- अहो महापुरुष ! अथास्माकं मरणरूपं महाभयं जातम् । मरणादप्यधिकं भयं किमपि नास्ति, यतः ---
पंथसमा नत्थि जरा, दारिदसमो पराभवो नत्थि । मरणसमं नत्थि भयं, खुहासमा वेयणा नत्थि ॥२४॥
ततः सूरिभिः पृष्टम्-किं सद् भयम् । राजा प्राह-हे भगवन् ! योऽस्माकं कुद्धः स्वामी स साहानुसाही वर्त्तते, तेन कुपितेन लिखितं वर्त्तते, ' यदुतानया छुरिकया निजमस्तकं छित्त्वाऽस्मिन् कवोलके क्षिप्त्वा शीघ्रं मोच्यम्, नोचेत् तव सकुटुम्बस्य क्षयो भावी' । यथा मम तथाऽन्येषामपि मम तुल्यानां ९५ पञ्चनवतिसाखीराजानां दूतो मुक्तोऽस्ति । अतो महाभयम् । किं क्रियते !, कुत्र गम्यते !, कथं छुटयते ? । ततः श्रीकालिकाचार्यैः विचारितम् - अयमवसरः, मम च कार्यम् । ततः स्वास्खीराजाय प्रोक्तम् - हे राजन् ! मा म्रियस्व, मा चिन्तां कुरु, जीवन् नरो भद्रशतानि पश्यति ।
यथा दृष्टान्तः-
भानु मन्त्री दयिता सरस्वती, मूर्ति गता सा नृपकैतवेन । गङ्गातटस्यां पुनरेव लेभे, जीवन् नरो भद्रशतानि पश्येत् ॥ २५ ॥
अत्र समये सति दृष्टान्तो वाच्यः । ततः पञ्चनवतिसा खीराजानः भवान् च सर्वेऽपि एकीभूय मया सार्धे चलन्तु । यथा हिन्दुकदेशे गत्वा गर्दभिनृपमुच्छेद्योज्जयिनीराज्यं विभज्य भवतां समर्प्यते । ततः सूरिवचने प्रतीतिं कृत्वा लेखप्रेषणपूर्व सर्वान् ९५ राज्ञ आहूयैकत्र मिलित्वा प्रयाणढक्कां दापयित्वा सर्वेऽपि ९६ साखराजानः श्रीकालिकाचार्यसहिताश्चलिताः, अग्रे गच्छन्तः सिन्धुनदीमुत्तीर्य, सौराष्ट्रदेशमध्ये सुखेन समागताः । तदवसरे वर्षाकालः प्रादुर्बभूव । स कीदृशः :--
कालइ
“ आयो वर्षाकाल चिहुं दिसि घटा उमटी ततकाल | गडडाट मेह गाजर, जाणे नालिगोला वाजइ आभइ वीजलि झबकइ, विरहणीना हीया द्रवकर, पपीहा बोलह वाणिया धान बेचवा वखार खोलह, बोलइ मोर, दादुर करह सोर, अंधार घोर पहसह चोर । कंदर्प करइ जोर, मानिनी श्रीभर्त्तारनइ करइ निहोर, चंद्रसूरिज वादले छाया, पंथिजन
For Private And Personal Use Only