Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab

View full book text
Previous | Next

Page 207
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कालिकाचार्यकथा । २०३ राजा ततः किम् !, यदि तस्य नगरं महत् तर्हि किम् ?, यदि गर्दभिल्लस्य अन्तःपुरनियो बयः ततः किम् ।, यदि राज्ञो भाण्डागार-कोष्ठागार-हस्ति-तुरङ्गम-रथ-पदातमो बहवः ततः किम् , यदि राजा प्राज्यं साम्राज्यं भुनक्ति तदा मम किम् ! । इत्येवं प्रलपन्तं प्रतिमार्ग प्रतिगृहं भ्रमन्तं कालिकाचार्य दृष्ट्वा नगरवासिनो लोकाः सामन्त-श्रेष्ठि-सेनापतिमन्त्रिप्रमुखा एकीभूय राज्ञः समीपे गत्वा एवं प्रोक्तवन्तः-हे राजेन्द्र ! अयं महापुरुष आचार्यों निजभगिनीस्नेहाद् प्रथिलो जातः ततः कृपां कृत्वा साध्वी मुश्च यथाऽयं सज्जो भवति । इत्यादिवचनानि श्रुत्वा कुपितो राजा वक्तुं प्रवृत्तः-रे लोकाः । यात यात मम दृष्टितः, एवंविधां शिक्षा निजगृहे निजमातृ-पितृ-भ्रातृ-कलत्रादीनां दत्त । ततः सामन्तादयो लोका विलक्षीभूय स्वगृहं जग्मुः। श्रीआचार्यैरपि श्रुतं यत् ' सामन्तादिवचनमपि न मानितम् ', अथ यदि तेनाधमेनातितानितं तर्हि त्रुटत्येव, यतः अतिताण्युं त्रुटइ, अतिभयु फुटइ । अतिखाधु खूटइ, अतिढीली गांठि छूटइ ॥१८॥ तस्मात् किश्चिद् वैरूप्यं कर्तव्यम् । अत्रापि न स्थातव्यं च, कुत्रापि देशे गत्वा कमप्युपायं करोमि, इति निश्चित्य श्रीकालिकाचार्याः सिन्धुनदीतटे पश्चिमदिशि एकः पार्श्वकूलो देशोऽस्ति, तत्र गताः, तत्र देशे ये राजानस्ते सर्वेऽपि 'साखी' इति कथ्यन्ते । तत्रैकस्य साखीभूपस्य नगरसमीपे महात्मवेषेण गताः । तस्मिन् प्रस्तावे तत्रैका कूपिका वर्तते । तत्पार्श्वतो बहवः कुमारा भ्रमन्तो दृष्टाः, पृष्टं च-भो ! किं विलोक्यते ! । ते प्राहुः भो परदेशिन् ! अस्माकं रममाणानां मणिमयकन्दुकः कूपिकायां पतितः, प्रवेष्टुं न शक्यते, बहिःस्थितानां च न निस्सरति । ततो वयं विलक्षीभूताः सन्त इतस्ततो भ्रमामः । आचार्या प्राहुः-भो कुमाराः ! गृहाद् धनुर्बाणानानयत यथा कन्दुकं निष्कास्य ददामि । ततस्तैस्तथा कृतम् । तत आचार्यैः आर्द्रछगण-वेष्टन-ज्वलत्वृणक्षेपणपूर्व धनुराकृष्यैकेन बाणेन कन्दुको विद्रः, द्वितीयेन बाणेन प्रथमो बाणो विद्धः, एवं तृतीयेन द्वितीयः, इत्येवं परम्परया विद्धबाणप्रयोगेन कूपकण्ठस्थितैरेव कन्दुको निष्कास्य कुमाराणां दत्तः । सर्वेऽपि कुमारा हर्षिताः सन्तो विस्मयमादधानाः स्वस्वगृहं गत्वा एवं प्रोचुः-हे तात ! अधैकः कोऽपि परदेशी परदेशात् कलावान् समेतोऽस्ति, तेनास्माकं कूपे पतितः कन्दुको निष्कास्य दत्तः । सर्वोऽपि वृत्तान्तः कथितः । ततः तत्रत्यसाखीभूपैः निजपुत्रान् मुक्त्वा सादरं स्वगृहे श्रीकालिकाचार्याः सामनीताः । ततः सूरिभिराशीर्वादो राज्ञे दत्तो यथा चिरं जीव चिरं नन्द, चिरं पालय मेदिनीम् । चिरमाश्रित्यलोकानां, प्रपूरय मनोरथान् ॥१९॥ पुनरपि पौषमासे निराहारा बड्वाहाराध कार्तिके । चैत्रमासे गुडाहारा भवन्तु तत्र शत्रवः ॥२०॥ ततः साखीराजेनापि विद्याकलाचातुर्यचमत्कृतेनातिबहुमानसन्मानादि दत्वा निजपाचे रक्षिताः । विद्यावन्तो हि पूज्यन्ते, यदुक्तम् विद्वत्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥२१॥ For Private And Personal Use Only

Loading...

Page Navigation
1 ... 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237