SearchBrowseAboutContactDonate
Page Preview
Page 206
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१ श्रीसमयसुन्दरगणिविरचिता तपान्यो तउही कांचण, घस्यउ तउही चंदण । लहुडउ तउही सीह, धुंधलउ तउही दीह । नान्ही तउही नागिणी, निरसी तउही सोहागणी'। ततो यदि एतामितोऽपहृत्य ममान्तःपुरे मुश्चामि, स्नान-मजनादि सम्यगुपचरामि, मनोज्ञाहारादिना पोषयामि, तदा मम स्त्रीरत्नं भविष्यति । एतां विना च मम राज्यश्रीरपि निष्फला, मम जीवितं च वृथा ज्ञेयम्-इत्येवं ता कामग्रहप्रस्तेन गर्दभिल्लेन श्येनेन चटकेव निजसेवकपार्थाद् नानाविधं विलपन्तीमुत्पाटयित्वा निजान्तःपुरे क्षिप्ता। विलापस्त्वेवम्-हे बान्धव! हे सुगुरो ! हे अनेकगुणप्रधान ! हे चतुरबुद्धिनिधान ! हे जिनशासननायक ! हे भव्यजीवसुखदायक ! हे जिनशासनशृङ्गार ! हे गच्छाधार! हे आगमस्याकर ! हे करुणासागर ! हे भ्रातः ! हे कालिकाचार्य ! गर्दभिल्लेन राज्ञा पापिष्ठेन शीलखण्डनेच्छानिष्ठेन मम सर्वथाऽप्यनिष्टेन मामनाथामिवापहरन्ती रक्ष रक्ष इति । तदा अन्या अपि साध्व्यः पूत्कारं चक्रुः । लोका अपि हाहाकारं वितेनिरे । ततो महाकोलाहलो जातः । ततः शीघ्रं साध्वीभिः सर्वोऽपि वृत्तान्तः श्रीकालिकाचार्यस्य निवेदितः-भवदीयभगिनी सरस्वती साध्वी गर्दभिल्लेनापहृत्य निजान्तःपुरे क्षिप्ताऽस्ति । न ज्ञायतेऽथ क भविष्यति । ___ ततः श्रीकालिकाचार्याः कोपाक्रान्ताः कतिपयशिष्यैः सहिता राजपाचे जग्मुः । सौम्यशीतलन्यायवचनैः प्रोक्तम्हे राजन् ! एषा साध्वी मम भगिनी, तत्रापि शीलवती, तत्रापि पश्चमहाव्रतधारिणी, एतस्या वैमनस्यकरणे महाकर्मबन्धो भविष्यति । अपि चान्योऽपि नगरमध्ये दुष्टमतिः दुःशीलश्च भविष्यति स तव निवायों भविष्यति, परं यदि त्वमेवान्यायं करिष्यसि तदा तव निवारकः को भविता ! अपि च यत्र नगरे राजैव चौरोऽन्यायी च तत्र लोका नगरं मुत्क्वा वनमेव भजन्ति । यदुक्तम् यत्रास्ति राजा स्वयमेव चौरो, भाण्डीवहो या पुरोहितश्च । वनं भजध्वं ननु नागरा भो !, यतः शरण्याद् भयमत्र जातम् ॥१६॥ इति । पुनः कालिकाचार्यैः प्रोक्तम्-हे राजन् ! अन्तःपुरे बहल्यो रूपवत्यश्चातुर्यकलावत्यो युवत्यो रमणीयाः सन्ति, तासामुपरि संतोषं कुरु, परं माऽनयाऽस्थिमात्रया मलमलिनगात्र्याऽतिजीर्णवस्त्रया साध्या समं किं सुखमनुभविष्यसि । ततो मुश्चनां यथा धर्मशालायां गत्वा एषा संयम पालयिष्यति । एतादृशानि श्रीकालिकाचार्यवचनानि श्रुत्वा गर्दभिल्लो मौनमाधाय श्रुतमप्यश्रुतं कृत्वा स्थितः, समुत्थाय चान्तःपुरे गतः । ततः श्रीकालिकाचायश्चिन्तितम्-अथ कोऽपि नवीन उपायः क्रियते । ततः श्रीकालिकाचार्या उपाश्रयमागत्य सङ्घाने सर्वस्वरूपं प्रोक्तवन्तः । ततः सङ्कन चिन्तितम्-आचार्यवचनं न मानितम्, परमस्मद्वचनं मानयिष्यति । ततः प्रभूतं प्रामृतं लात्वा सद्योऽपि भूपाने गतः । राज्ञा पृष्टम् कथं भो! महाजनैः समागतम् !, किं कार्यम् !। संघेनोक्तम्-त्वं मालवकदेशस्वामी तवेदृशं कुकर्म कर्तुं न युक्तम् । यतो राजा पितेव प्रजाः प्रतिपालयति, विशेषतो दर्शनिनां तपस्विनां वर्गम्, ततो मुञ्चेमा साध्वीम्, इत्यादि बहुतरं प्रोक्तम्, परं स कुकर्मा कामी राजा न मुश्चति । ततः संघेन यथागतेन तथाऽऽगतेन श्रीसूरीणां प्रोक्तम् । ततः श्रीकालिकाचार्येण कोपाक्रान्तेन संघाने प्रोक्तम्-अहं समर्थः सन् जिनशासनप्रत्यनीकानां यदि शिक्षा न दधि, तदा जिनाज्ञाविरोधकत्वेन दुर्गतिकः स्याम् । यदुक्तम् ये प्रत्यनीका जिनशासनस्य, संघस्य ये चाशुभवर्णवाचः । उपेक्षकोडाइकरा धरायां, तेषामहं यामि गति सदैव ॥१७॥ ततः प्रतिज्ञा चक्र-यदाऽहं गर्दभिल्लं सराज्यं नोन्मूलयामि तदाऽहं न कालिकाचार्यः । ततः स्वगच्छभारं गीतार्थेषु स्थापयित्वा स्वयमप्रथिलोऽपि प्रथिलीभूय कर्दमादिना गोत्रमनुलिम्पन्, नगरमध्ये भ्रमन् , वक्ति-यदि गर्दभिल्लो For Private And Personal Use Only
SR No.020798
Book TitleCollection of Kalka Story Part 02
Original Sutra AuthorN/A
AuthorAmbalal P Shah
PublisherSarabhai Manilal Nawab
Publication Year1949
Total Pages237
LanguageHindi
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy