Book Title: Collection of Kalka Story Part 02
Author(s): Ambalal P Shah
Publisher: Sarabhai Manilal Nawab
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कालिकाचार्यकथा । प्रत्यक्षतस्तेऽत्र विरुद्ध एष, पक्षस्तया हेतुरसिद्ध एव । वेदोक्तहिंसाकरणेन नूनं, दृष्टान्तकं भावदसाधनोनम् ॥४६॥ एवं प्रकारैः स कृतो निरुत्तरः, पुरोहितः सूरिषु बाबसादरः । वहनसूयां नगरेऽप्यनेषणामचीकरत् तामवबुध्य तत्क्षणात् ॥४७॥
आर्या महाराष्ट्रमहीविभूषणे, ययुः प्रतिष्ठानपुरेऽस्तदूषणे । तत्रास्ति भूमीपतिसालवाहना, सदाईतो विक्रममेघवाहनः ॥४८॥ समागते पर्युषणाभिधाने, पर्वण्ययासन्नतरे प्रधाने । श्रीकालिकाचार्यपुरो विशेष, विश्वापतिविज्ञपयत्यशेषम् ॥४९॥ नभस्यमासोज्ज्वलपञ्चमीदिने, शक्रोत्सवोऽत्र ग्रथितोऽखिले जने । षष्ठयां ततः पर्युषणा विधीयतां, ममैप मानः सुगुरो ! प्रदीयताम् ॥५०॥ विज्ञाय विज्ञप्तिमिमां नरेशितः, स्मृत्वाऽऽह सरिः समयं जिनेशितुः । न बध्यते पर्युषणाख्यवासरस्तां पञ्चमी चेच्चकतीह मन्दरः ॥५१॥ कुर्यात् तदगिति गो सुराजः, श्रुत्वा चतुर्थ्यांमथ पर्वराजः । गणाधिपैस्तस्य महोपरोधादाधायि सिद्धान्तविधिमबोधात् ॥५२॥
अथान्यदा दुविनयं विनेयत्रज विलोक्य प्रभुरेवमुचे । तपो निरर्थ किल कूलवाल-पाश्चालिकाजीवमहासतीवत् ॥५३॥ इत्यादिदृष्टान्तपरम्पराभिः, शिष्यानबुद्धानवबुद्धय ताभिः । एकः प्रभुस्तं निजशिष्यशिष्यं, सूरि ययौ सागरचन्द्रकाख्यम् ॥५४॥ धर्मोपदेशं दिशतोऽस्य पाढं, श्रीकालिकार्योऽभिदधाति गाढम् । नास्तीह धर्मों भुवि भूरिसवः, पञ्चप्रमाणाविषयात्मकत्वात् ॥५५॥ स्वपुण्यवन्ध्यातनयादिदृष्टदृष्टान्तभावै रसमाव इष्टः । अजातपुत्रस्य यथा न नाम, नासिद्धधर्मस्य तथाऽस्ति धाम ॥५६॥ श्रुत्वेति तां कर्कशतर्कवाचं, विस्तारयन्तं मुनिवृद्धमेतम् । अहो! अयं कालिकसरितुल्यो, विचिन्तयन् सागरचन्द्र ऊचे ॥५७॥ नेत्याश्रितोऽस्तीति पदप्रयोगः, पदद्वयस्यास्य विरोधयोगः । इत्युत्तरैः स्थापितधर्मवक्षः, स सागरः माह फलैः समक्षम् ॥५८॥ श्रीसागरायो विहितस्वरूपः, सुवर्णभुव्यस्ति स सूरिभूपः । शय्यातरज्ञापितसर्वभावाः, शिष्याः समागुः पुनरत्र भावात् ॥१९॥ गच्छस्य संगादवगम्य सूरिमसौ गुरुं क्षामयति स्म भूरि । स वालुकामस्थनिदर्शनेन, श्रीसूरिणाऽबोधि च सागरेन्द्रः ॥६०॥
For Private And Personal Use Only

Page Navigation
1 ... 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237