Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
३००
सवृत्तिच्छन्दोऽनुशासनप्रद्योत [अ० २, सू० - ३५४.]
1
जनैः । ये विकचैचिराय चरणारविन्दयुगमर्चयन्ति कुसुमैर्, मद्रकमन्दगोतिभिरभिष्टुवन्ति च चरित्रमत्र भवतः ।। ३५३.१ ।।
अथ द्वात्रिंशत्यक्षरामाकृतिजाति वर्णयितुमुपक्रमते आकृतौ भ्रौ त्रौ श्रो गौ मद्रकं जैरिति । विवृणोति - भरनरनरनगाः । त्रैरिति दशभिर्यतिरिति । भगण-रगण-नगण - रगण-नगण-रगण-नगणाः गुरुश्च 1511. SIS. 111. SIS. 111. SIS. III. S. ' इतीदृशं रक्षरः कृताः पादा यस्य, दशभिश्च यतियंत्र तत् मद्रकं नामाकृतिजातिच्छन्द इत्यर्थः । उदाहरति- यथा- देवजगत्त्रयेति । अत्र पद्ये मुद्रितपुस्तके द्वितीयपादे 'शिरोमणिपदव्यभाजि' इति समस्तः पाठो दृश्यते । सच नार्थसम्बन्धानुकूलः । पर्यायविवरण- पादटिप्पणीसमवलोकनेन च 'पदं व्यभाजि' इति पाठः प्रतीयते स एव च समुचित इति तमेवावलम्ब्य व्याख्यायते । हे जगत्त्रयैक तिलक ! जगत्त्रयस्य त्रिलोक्या एकं तिलकं भालभूषणमिवेति तत्सम्बोधनम्, प्रभो निग्रहानुग्रहसमर्थ ! प्रणयिलोक कल्पfar ! भक्तभविकल्पपादपभूत ! जिननाथदेव ! तैः जनैः इह लोके शिरोमणिपदं श्रेष्ठतमं स्थानं व्यभाजि विभज्यस्वीकृतम् ये अत्रभवतः पूज्यस्य तव विकचैः विकसितैः कुसुमैः पुष्पैः चरणाविन्दयुगं पादसरसीरुह युग्मम् अर्चयन्ति पूजयन्ति - चरित्रम् सुचरित लीलां - मद्रकमन्दगीतिभिः मद्रका इव मन्दा गीतयः मन्दस्वरगानानि तैः अभिष्टुवन्ति सर्वतः शंसन्ति । हे देव- इह लोके तएव श्रेष्ठतमा ये भक्त्या तव पादपूजां चरन्ति तव गुणांश्च गायन्तीति भावः । दे [s] व [1] ज [1] ग [5] त्र [1]
[s] क [1] ति [1] ल [1] क [5]; प्र [1] भो [5] प्र [1] ण [1] यि [1] लो [5) क [1] क [5] ल्प [1] वि [1] ट [1] पिन् [s] इतिदशभिर्यत्यालक्षणसङ्गतिः तः ॥ अ० २, सू० ३५३।१ ।।
स्तौ त्नो स्रौ र्गो महास्रग्धरा जछेः ॥ ३५४ ॥ सततनसररगाः । जछैरिति अष्टभिः सप्तभिश्च यतिः । यथा- अभि नागान्याति योऽयं स मम मम पुनर्यच्छिरो हुंकरोति, प्रचलोऽयं यत्कबन्धः प्रहरति स तु मे प्राणनाथोsस्तु सल्य: । दलयन् यो दुष्टभूषानहमहमिकया स्वर्गसीमन्तिनीनां परिशुधावेति वाचो वरवरणमहास्रग्धराणां रणेषु ॥ ३५४.१ ॥

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381 382 383 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460