Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
३४२
स वृत्तिच्छन्दोऽनुसाशन प्रद्योते [अ०२, सू० ३८८. ]
केदार - आसार-सत्कार- संस्कार- माकन्द - गोविन्द - सानन्द - सन्दोह - आनन्द्र- इत्येते आदि पदे ग्राह्या इति तर्कवाचस्पतिः । स्वमते च समुद्र - भुजंगादय: आदिपदेन गृह्यन्ते इति वक्ष्यति । इत्थं प्रथमं प्रभेदं वर्णयति - तत्र - नगणाभ्यां परंरभी रगणैरिति । तथा च नगणद्वयम् - रगणाष्टकम् ' 111. 111 515. SIS. SIS. Sis. sis. sIS SIS SIS. ' इतीदृशैर्वर्णेः कृताः पादा यस्य तत् अर्णनामक दण्ड जातिच्छन्द इत्यर्थः । तथा चोदाहरति यथा- अविरलेति । अविरल गुरुशाखिनः अविरलाः घनाः गुरवः महान्तश्च शाखिनो वृक्षा यत्र तादृशान् अरण्यभागान् वनप्रदेशान् समुत्तुङ्गशृङ्गावलीशालिनः समुत्तुङ्गाभि: अत्युन्नताभिः शृङ्गावलीभि; शेखरसमूहैः शालन्ते शोभन्ते इति तान् सर्वभूमीभृतः सर्वान् पर्वतान्, विपुलतरतरंङ्गससङ्गिनी: विपुलतरैः महामहद्भिस्तरङ्गः ऊर्मिभिः संसङ्गः संपर्को यासां तथा भूताः कूलिनी: तटिनी (नदी) उच्छ्रितानेकसौधान् उच्छ्रिताः उन्नता अनेके सौधा: प्रासादा येषु तान्- पुरग्रामदेशान् नगर ग्रामभागान् अपि स्थगयति आच्छादयति, सपत्नत्वं शत्रुत्वं प्रपत्रे प्राप्ते तमसि अन्धकारे सति, उन्मुक्त'धेयस्य त्यक्तघृतेः पाथोनिधेः समुद्रस्य, ( एवं सर्वान् व्याप्नुवदि नमो यामपि व्याप्स्यतीति शङ्कितस्य) मंक्षु शीघ्रं कुपित इव कृतक्रोध इव रज्यद्वपुः रक्तवर्णशरीरः समुद्यत्करः समुद्यन्तः समुदयः प्राप्नुवन्तः करा: किरणा यस्य तादृशः, तस्य तमसः संहारकारी विनाशकृत् निशावल्लभः चन्द्रः तदर्णसः समुद्रजलमध्यात् प्रोद्ययौ निः सृतः । वनपर्वतनगर ग्रामादिषु सर्वत्र तमसाच्छन्नेषु भीतं समुद्रमालोक्य तम सः संहाराय समुद्रजलादेव चन्द्रो बहिरगत इति भावः । अ [1] वि [1] र [1] ल [1] गु [1] रु [1] शा [5] खि [1] नो [5] र [5] ण्य [1] भा [s] गान् [s] स [1] मुं [s] तु [5] ङ्ग [1] शू [S] ङ्गा [s] व [1] ली [s] शा [s] लि [1] न: [s] स [s] [1] भू [S] मी [s] भृ [1] तः [s] इति लक्षणसमन्वयः ॥ अ० सू० ३८८।१ ।।
अतः परं नवभीरगणैः कृतपादमर्णवमुदाहर्तुं माह- नवभिरर्णवः इति । तथा च नगणद्वयात्परतः नव रगणाः ।।1. 111. SIS. SIS. sis sis sis. sts. SIS. SIS. SIS' इतीहरौरक्षरः कृताः पादा यस्य सोर्णवनामा दण्डक इत्यर्थः ।

Page Navigation
1 ... 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460