Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti

View full book text
Previous | Next

Page 388
________________ ३४३ [अ० २, सू०-३८८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते तथोदाहरति- यथा-प्रसृतनिबिडेति । हे प्रिय ! वल्लभ ! प्रसृतनिबिउमारुतान्दोलिताश्वत्थसंशीर्णपर्णोधविस्फारवातोलिकापूर्यमाणाम्बरे प्रसृतः सर्वतः प्रसरं गतो निबिडः बहुलीभूतो यो माहतः वायुस्तेनान्दोलितानां कस्पितानामश्वत्थानां संशीणः पतितः पाँधैः पत्रसमूहैः विस्फारया वृद्धिगतया वातोलिकया वात्यया आपूर्यमाण माच्छाद्यमानमम्बरं यस्मिन् तथा भूते, घनवनदवदह्यमानाखिलकरशार्दूलपोतोद्भटोन्नादसंत्रस्तमातङ्गयूथाकुले घनेन बहुलीभूतेन वनदेवतारण्यदावाग्निना दह्यमानानां प्लुष्यमाणानां क्रूराणां भयङ्कराणां शार्दूलपोतानां तरक्षुशिशूनाम् उद्भटः उच्चस्तरैः उन्नादः ऊर्ध्वजितैः सत्रस्तानां भीतानां मातङ्गानां हस्तिनां यूथेव समूहेन आकुले व्याकीर्णे, दिनकरकरतप्तकोलावलीश्रीयमाणातल्ले दिनकरस्य सूर्यस्य करः किरणः तप्तान. जाता संतापानां कोलानां शूकरणाम् आवल्या पक्त्या श्रियमाणानि शरणीक्रियमाणानि आर्द्राणि क्लिन्नानि तल्लानि अकृत्रिमसरांसि यस्मिन् तथाभूते लसल्लोलकल्लोलवाचालमाथन्महार्णव पयसि लसद्भिः शोभमानः लोलः चञ्चलः कल्लोलेः मिभिः वाचालम् बहुवदत् माद्यत् गर्वितम् अर्णवस्य समुद्रस्य पय: जलं यस्मिस्तस्मिन् ग्रीष्मका निदाधसमये त्वं मा स्म गाः न गच्छेः, मे मम पीनस्तनाश्लेषसौख्यानि पीनयोः स्थूलयोः स्तनयोः कुचयोराश्लेषस्य आलिङ्गनस्य सौख्यानि आनन्दानि मानय स्वीकुरु । पणौंधसंकुलाभिर्वात्याभिराकाशे समाकुले वनव्याघ्रकोलादि सन्तापिनि समुद्रतरङ्गवर्धकेऽस्मिन् ग्रीष्मसमये दूरदेशगमनं विहाय ममालिङ्गन सौख्यमेवानुभवेति भावः । प्र [1] स [1] त [1] नि [0] बि [s] ड [1] मा [s] रु [I] ता [s] न्दो [5] लि [1] ता [s] श्व [s] त्य [1] सं [5] शी [s] र्ण [0] प [s] णौ [5] ध [1] वि [s] स्फा [5] र [1] बा [s] तो [s] लि [0] का [1] पू [s] र्य [0] मा [s] णा [5] म्ब [1] रे [5] इति लक्षणसङ्गतिः ।। अ० २, सू० ३८८।२॥ __ अथ नगणद्वयात्परतो दशभी रगणः कृतं न्यालनामानं दण्डकं वर्णयितुमवतारयति- दशभिाल इति । तथा च नगणद्वयात्परतो दशरगणाः ॥... SIS sis. SIS. sis. sis. SIS. Is. sis sis. SIS. इतीदृशः षट्त्रिंशता अक्षरः कृताः पादा यस्य स व्यालनामा दण्डक इत्यर्थः । उदाहरति- यथा-चिर

Loading...

Page Navigation
1 ... 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460