Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
[अ० २, सू०-३६१.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते
३५३ तव चण्डकाले कराले कृपाणे सदा संश्रयन्ते महीपालचूडामणे ॥३६१.१॥ एवमेककरगणवृद्ध याप्युदाहार्यम् ॥३६१.१॥
प्रकारान्तरेण दण्डकान् विभजते- नऽभ्यामष्टादिराः पत्रग-दम्भोलि. हेलावली-मालती-केलि-कङ्कलि-लीलाविलासादयः इति । विवृणोतिनगणाद्गुरोश्च पर इति, नगणः एकः गुरुरेक- अष्टौ रगणाः पन्नगः, नगणाद्गुरोश्च परतो नवरगणाः दम्भोलि:, नभ्यां परे दश रगणाः हेलावली- एवं क्रमेण चतुर्दश रगणान्ताः मालत्यादयः लीलाविलासपर्यन्ता विज्ञेयाः। तत्र प्रथमं प्रकारमाह अपरगणः पन्नग इति । नगणाद्गुरोश्च परतः अष्टौ रगणाः 'm. s. SIS. sis. sis. sis. sis. sis. sis. sis.' इतीदृशैरष्टाविंशत्या अक्षरः कृताः पादा यस्य स पन्नगनामादण्डक इत्यर्थः । उदाहरति- यथाअविकलध्यानेति । अविकलध्यानसन्तानधूमध्वजज्योतिराडम्बरप्लुष्ट निःशेषकर्मेन्धनः अविकल: सपूर्णो ध्यानसन्तानः एकाग्रप्रत्ययप्रवाहः इव धूमध्वजो वह्निः तस्य ज्योतिषः प्रकाशस्य तेजसो वा आडम्बरेण विस्तारेण प्लुष्टं दग्धं निःशेष सकलं कर्मेन्धनं कर्मरूपं काष्ठं यस्य सः विदलितोदग्रभूयः कषायः विदलितः विशीर्णः उदग्रः महान् भूयान् बहुलीभूतः कषाय: वासनामलं यस्य सः; एष सः पाश्वनाथः जिनः वः युष्मान् अपायात् विनाशात्-चिराय बहुकालं यावत् पायात् रक्षेत् । यस्य पार्श्वनाथस्य गाढ़ोपसर्गक्रियाकर्कशे गाढया बहू लीभूतया उपसर्गक्रियया उपद्रवाचारेण कर्कशेकठोरे तत्प्रतीकारबद्धप्रयत्ने तस्या उपसर्गक्रियायाः प्रतीकाराय संशोधनाय बद्धः विहितः प्रयत्नः पश्चातापादि रूपो येन तथाभूते च कमठदैत्ये तन्नाम्नि राक्षसे, प्रकटितात्यन्तभक्तौ दर्शितातिशयश्रद्धे पन्नगेन्द्रे सर्पराजे च तदा तस्मिन् काले कृपााः दयाशीतलाः दृष्टिपाताः नेत्रव्यापाराः भृशं अत्यर्थ समाः तुल्या अभवन् जाताः । अपकारिणि शरणागते निजभक्ते च यस्य समो भावः, ध्यानाग्निदग्धकर्मा विगतकषायश्च स जिनः युष्मान् पात्विति भावः । अ [1] वि [1] क [1] ल [5] ध्या [5] न [1] सं [s] ता [s] न [1] धू [s] म [s] ध्व [1] ज [s] ज्यो [5] ति [1] रा [s] ड [s] म्बा [1] र [s] प्नु [1] ष्ट [1] निः [5] शे [s] ष [1] क [s] में [1] न्ध [1] नः [s] इति लक्षणसंगतिः । एवमेकैकशश्चतुर्दशसंख्या

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460