Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
३५२
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २ सू०-३६०-३९१.]
म [1] हा [s] वा [5] हि [1] नी [s] व्यू [s] ह [1] वि [5] स्फा [5] र [1] ण [S] व्य [s] क्त [1] श [s] क्तौ [s] इतिलक्षणसमन्वय ॥ अ० २, सू० ३८६।१ ।।
नग्भ्यामष्टादिराः पन्नग दम्भोलि - हेलावली-मालतीकेलि कङ्कल्लि लीलाविलासादयः ॥ ३९० ॥
नगणाद्गुरोश्च परे अष्टादिसंख्या रगणा येषु ते यथासंख्यं पन्नगादयो दण्डका भवन्ति । तत्राष्टरगणः पन्नगः । यथा- अविकलध्यान संतान धूमध्वजज्योतिराडम्बरप्लुष्टनिःशेषकर्मेन्धनो, विदलितोदग्र भूयः कषायश्विरायैष पायादपायात् स वः पार्श्वनाथो जिनः । कमठदैत्ये च गाढोपसर्गक्रियाकर्कशे तत्प्रतीकारबद्धप्रयत्ने भृशं प्रकटितात्यन्तभक्तौ तदा पन्नगेन्द्रे च यस्याभवन् दृष्टिपाताः कृपार्द्राः समाः ॥ ३६० १॥ एवमेकैकरगणवृद्धयान्येऽपि षडुदाहार्या:
॥३६०.१॥
इत्थं नगणद्वयात्परतो यगणैः सप्तभीरचितस्य प्रचितस्योदाहरणमुक्त्वा प्रकृतविधि मन्यत्राप्युतिदिशति एवमादिषु शेषगणेषूदाहार्यम् । यगणरगणाभ्यां शिष्टाये नगणातिरिक्ताः पञ्चगणाः मगण- भगण - जगण• सगण-तगणाः तेष्वपि नगणद्वयात्परतः सप्तसु विन्यस्तेषु प्रचितनामा दण्डक उदाहार्यं इति भावः । रगणवत् यगणांदिष्वपि - एकैकवृद्धया अर्णादिदण्डकव्यवस्थां पूर्वोक्तामुदाहतुमपि अतिदिशति - एकैकगणवृद्धया च अर्णार्णवेत्यादि । रगणवद्यगणादीनपि एकोन सहस्राक्षरपादं यावद्वर्धयित्वा तेषामपि यथारुचि अर्ण - अर्णव इत्यादि नामभिः प्रत्याय्य तेषामप्युदाहरणानि समूह्यानीति भावः ॥ अ० २, सू० ३६०।१ ।।
लोर्यथेष्टं राश्चण्डकालः ॥३९१||
लघुप कात्परे यच्छया क्रियमाणा रगणाश्चण्डकालः । यथा- विविधमणिमेखलाश्रेणिविश्राणितश्रीणि हित्वा पुराण्याशु चान्तः पुराण्युच्चकैः, करटितुरगादिसेनासहस्राणि च स्वीकृत च्छद्मकर्मन्दिवेषास्त्वदीयद्विषः । प्रतिदिशममी गिरीणां महाकन्दराः शाखिगुल्मानि कूलंकषा कूलरन्ध्राणि च स्फुरति

Page Navigation
1 ... 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460