Book Title: Chandonushasan
Author(s): Vijaylavanyasuri, Vijaysushilsuri
Publisher: Gyanopasak Samiti
View full book text
________________
३५०
सवृतिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० - ३८९.]
करगणवृद्धया विन्यस्तपादानां दण्डकानां 'प्रचित' इति समुदायसंज्ञा पिङ्गलाचार्यस्य मता; तत्तद्विशेषनामानि तु स्वरुचि रचितानि वागीश्वराः कुर्वन्तु न तत्र नियमः इति । स्वमते च रगणस्थाने सप्तभिः यगणादिभी रचितपादानां 'प्रचित' संज्ञाऽग्रिम सूत्रेण शास्यते, 'शेषः प्रचित:' ( ७/३६ ) इति पूर्वोक्त पिङ्गलसूत्रव्याख्यानेऽपि केचित् शेषशब्दस्य यगणादि राचितदण्डक परत्वं स्वीकुर्वन्ति इति तहिप्पण्यामुक्तम् । तथा च नगणरद्वयात्परतः सप्तरगणैः कृतपादं दण्डकं विहाय सर्वे दण्डकाः प्रचितसंज्ञा इत्येकं मतम्, नगणद्वयात्परतो सप्तभिः यगणादिभी रचितपादा दण्डकाः प्रचितसंज्ञा इत्यपरं मतमिति निष्कर्ष: ॥ अ० २, सू० ३८८७ ॥
नाभ्यां रवद्यादयः प्रचितः ॥ ३८९ ॥
नगणद्वयात् परे यादयः सर्वे वर्णगणा यदा भवन्ति तदा प्रचितः । रवद् इत्यतिदेशात्सप्तभिर्यैः प्रचितः । ततः परमेर्केकयादिवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयोऽत्रापि भवन्ति । यथा - विलसदुरुतरवारि प्रचण्डे महावाहिनीव्यूहविस्फारणव्यक्तशक्तौ, प्रकटयति रुचिराखण्ड कोदण्डदण्डं दिशत्युच्च के राजहंसप्रणाशम् । प्रशमयति निखिलं मेदिनीचक्र संतापविस्फूजितं न्यकृत प्रतापे, प्रचितधनवलयुक्त नभस्यायमाने चुलुक्येश्वरे को न धत्ते प्रमोदम् ।।३८६.१॥
एवमादिषु शेष गणेषूदाहार्यम् । एकैकगणवृद्धया च अर्णाणवव्यालजीमूतलीलाकरोद्दामशङ्खादयोऽप्युदाहार्याः ।
अथ नगणद्वयात्परत यगणादिभिः प्रत्येकं सप्तभिः रचितपादस्य दण्डकस्य संज्ञामुदाहरणं च वक्तुमुपक्रमते - 'नाभ्यां रवद्यादयः प्रचित' इति । विवृणोति - नगणद्वयात्परे यादयः सर्वे गणा इत्यादिना । नगणद्वयादग्रे यथायथं यदि सर्वे गणा: ( पर्यायश: ) प्रयुज्यन्ते तदा स सर्वोऽपि दण्डकः प्रचित संज्ञां लभते इत्यर्थः । यथा - नगणद्वय सप्तयगणः कृताः पादा यस्य स प्रचितः, नगणद्वयात्परतः सप्तभिर्भगणैः कृताः पादा यस्य सोऽपि प्रचित:, एव मन्येऽपि तगणादयः परिवर्तनीयाः । इत्थं स्वाशयं स्पष्टयितुं पुनराह - रवत्रित्यतिदेशात्सप्तभिर्यैः प्रचित इति । पूर्वत्र नगणद्वयात्परतः सप्तभी

Page Navigation
1 ... 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460