SearchBrowseAboutContactDonate
Page Preview
Page 395
Loading...
Download File
Download File
Page Text
________________ ३५० सवृतिच्छन्दोऽनुशासनप्रद्योते [अ०२, सू० - ३८९.] करगणवृद्धया विन्यस्तपादानां दण्डकानां 'प्रचित' इति समुदायसंज्ञा पिङ्गलाचार्यस्य मता; तत्तद्विशेषनामानि तु स्वरुचि रचितानि वागीश्वराः कुर्वन्तु न तत्र नियमः इति । स्वमते च रगणस्थाने सप्तभिः यगणादिभी रचितपादानां 'प्रचित' संज्ञाऽग्रिम सूत्रेण शास्यते, 'शेषः प्रचित:' ( ७/३६ ) इति पूर्वोक्त पिङ्गलसूत्रव्याख्यानेऽपि केचित् शेषशब्दस्य यगणादि राचितदण्डक परत्वं स्वीकुर्वन्ति इति तहिप्पण्यामुक्तम् । तथा च नगणरद्वयात्परतः सप्तरगणैः कृतपादं दण्डकं विहाय सर्वे दण्डकाः प्रचितसंज्ञा इत्येकं मतम्, नगणद्वयात्परतो सप्तभिः यगणादिभी रचितपादा दण्डकाः प्रचितसंज्ञा इत्यपरं मतमिति निष्कर्ष: ॥ अ० २, सू० ३८८७ ॥ नाभ्यां रवद्यादयः प्रचितः ॥ ३८९ ॥ नगणद्वयात् परे यादयः सर्वे वर्णगणा यदा भवन्ति तदा प्रचितः । रवद् इत्यतिदेशात्सप्तभिर्यैः प्रचितः । ततः परमेर्केकयादिवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयोऽत्रापि भवन्ति । यथा - विलसदुरुतरवारि प्रचण्डे महावाहिनीव्यूहविस्फारणव्यक्तशक्तौ, प्रकटयति रुचिराखण्ड कोदण्डदण्डं दिशत्युच्च के राजहंसप्रणाशम् । प्रशमयति निखिलं मेदिनीचक्र संतापविस्फूजितं न्यकृत प्रतापे, प्रचितधनवलयुक्त नभस्यायमाने चुलुक्येश्वरे को न धत्ते प्रमोदम् ।।३८६.१॥ एवमादिषु शेष गणेषूदाहार्यम् । एकैकगणवृद्धया च अर्णाणवव्यालजीमूतलीलाकरोद्दामशङ्खादयोऽप्युदाहार्याः । अथ नगणद्वयात्परत यगणादिभिः प्रत्येकं सप्तभिः रचितपादस्य दण्डकस्य संज्ञामुदाहरणं च वक्तुमुपक्रमते - 'नाभ्यां रवद्यादयः प्रचित' इति । विवृणोति - नगणद्वयात्परे यादयः सर्वे गणा इत्यादिना । नगणद्वयादग्रे यथायथं यदि सर्वे गणा: ( पर्यायश: ) प्रयुज्यन्ते तदा स सर्वोऽपि दण्डकः प्रचित संज्ञां लभते इत्यर्थः । यथा - नगणद्वय सप्तयगणः कृताः पादा यस्य स प्रचितः, नगणद्वयात्परतः सप्तभिर्भगणैः कृताः पादा यस्य सोऽपि प्रचित:, एव मन्येऽपि तगणादयः परिवर्तनीयाः । इत्थं स्वाशयं स्पष्टयितुं पुनराह - रवत्रित्यतिदेशात्सप्तभिर्यैः प्रचित इति । पूर्वत्र नगणद्वयात्परतः सप्तभी
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy