SearchBrowseAboutContactDonate
Page Preview
Page 396
Loading...
Download File
Download File
Page Text
________________ [अ०२, सू० - ३८९ ] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३५१ artis ' चण्डवृष्टि' नामादण्डक उक्त तथा यादिविषयेऽप्यतिदिश्यते इति सप्तभिरेव पादिभिः कृतस्य दण्डकस्य 'प्रचित' संज्ञा ज्ञेया । संख्यान्तर विशिष्टैर्यादिभिः कृतानां तु संज्ञान्तं रगणवदेव विज्ञेयम् । तदेवाह - ततः परमेकैकयादिवृद्धा अर्णार्णवव्यालजीमूतलीलाकरोद्दामशङ्खादयोऽत्रापि भवन्तिइति । यथा यथोत्तरमेकैकरगणवृद्धत्रा अर्णादयो दण्डकाः पूर्वमुक्तास्तथा यथोत्तरमेकैकयगणादिवृद्ध्याऽपि विज्ञेया इति भावा । एवं प्रथमः प्रचितादण्डकःनगणद्वयं सप्त यगणाः '111. 111. iss Iss Iss iss Iss Iss. 155. ' इतीदृशेः सप्तविंशत्या अक्षरैः कृतपादः । तदुदाहरणमाह- यथा - विलसदुरुतरेति । विल्सदुरुतरवारिप्रचण्डे विलसता उरुणा महता तरवारिणा खङ्गेन प्रचण्डे - पक्षे विलसता उरुतरेण अत्यधिकेन वारिणा जलेन प्रचण्डे - भयङ्करे, महावाहिनीव्यूहविस्फारण व्यक्तशक्तौ महतो वाहिनी व्यूहस्य सैन्यसंनिवेशविशेषस्य पक्षे नदीप्रवाह विशेषस्य च विस्फारणे वर्धने व्यक्ता स्पष्टा शक्तिर्यस्य तादृशे, रुचिराखण्डको दण्डदण्डम् रुचिरं सुन्दरं च तत् अखण्डं पूर्णं कोदण्डदण्डं चापदण्डम् इन्द्रधनुश्च - प्रकटयति दर्शयति, राजहंस प्रणाशम् राजानोहंसा इवेति तेषां प्रणाशम् पलायनम्, अन्यत्र राजहंसानां मरालानां प्रणाशं पलायनम् ( प्रावृषि राजहंसाः पलाय्य मानसं गच्छन्तीति प्रसिद्धि:) उच्चकैः अत्यन्तं दिशत आज्ञापयति, निखिलं समग्रं मेदिनीचक्रसंताप विस्फूजितम् मेदिनीचक्रस्य पृथ्वीमण्डलस्य संतापः दुष्टैः कृतं पीडनम्, सूर्यश्मिकृतमौष्ण्यं वा तस्य विस्फूजितम् प्राबल्यम् - प्रशमयति नाशयति न्यकृतार्कप्रतापे न्यक्कृतः तिरस्कृतः अर्कस्य सूर्यस्य प्रतापो येन तस्मिन् - ( राजपक्षे प्रभावस्य तैक्ष्ण्येन सूर्य प्रतापतिरस्कारः, नभस्य पक्षे च छायया सूर्यप्रतापतिरोधानम् ) प्रचितघनबलयुक्ते प्रचितं समुदितं धनं बहुलीभूतं बलं सैन्यं तेन युक्ते, पक्षे प्रचितेन घनबलेन मेघसंन्येन युक्ते, चुलुक्येश्वरे चुलुक्यवंशीयनृपे नभस्यायमाने भाद्रपदमासवदाचरति सति कः जनः प्रमोदं प्रहर्ष न धत्ते न धारयति, अपि तु सर्व एव धारयतीति भावः । समानः विशेषणं राज्ञो भाद्रपदस्य च साम्यमुक्त्वा यथा भाद्रपदे जना नन्दन्ति तथाऽस्मिन् राजनि - तथा भूते सत्यपीति भावः । वि [1] ल [1] स [1] दु [1] रु [1] त [1] र [1] वा [5] रि [5] प्र [1] चं [s] डे [s]
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy