SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ ३५२ सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ० २ सू०-३६०-३९१.] म [1] हा [s] वा [5] हि [1] नी [s] व्यू [s] ह [1] वि [5] स्फा [5] र [1] ण [S] व्य [s] क्त [1] श [s] क्तौ [s] इतिलक्षणसमन्वय ॥ अ० २, सू० ३८६।१ ।। नग्भ्यामष्टादिराः पन्नग दम्भोलि - हेलावली-मालतीकेलि कङ्कल्लि लीलाविलासादयः ॥ ३९० ॥ नगणाद्गुरोश्च परे अष्टादिसंख्या रगणा येषु ते यथासंख्यं पन्नगादयो दण्डका भवन्ति । तत्राष्टरगणः पन्नगः । यथा- अविकलध्यान संतान धूमध्वजज्योतिराडम्बरप्लुष्टनिःशेषकर्मेन्धनो, विदलितोदग्र भूयः कषायश्विरायैष पायादपायात् स वः पार्श्वनाथो जिनः । कमठदैत्ये च गाढोपसर्गक्रियाकर्कशे तत्प्रतीकारबद्धप्रयत्ने भृशं प्रकटितात्यन्तभक्तौ तदा पन्नगेन्द्रे च यस्याभवन् दृष्टिपाताः कृपार्द्राः समाः ॥ ३६० १॥ एवमेकैकरगणवृद्धयान्येऽपि षडुदाहार्या: ॥३६०.१॥ इत्थं नगणद्वयात्परतो यगणैः सप्तभीरचितस्य प्रचितस्योदाहरणमुक्त्वा प्रकृतविधि मन्यत्राप्युतिदिशति एवमादिषु शेषगणेषूदाहार्यम् । यगणरगणाभ्यां शिष्टाये नगणातिरिक्ताः पञ्चगणाः मगण- भगण - जगण• सगण-तगणाः तेष्वपि नगणद्वयात्परतः सप्तसु विन्यस्तेषु प्रचितनामा दण्डक उदाहार्यं इति भावः । रगणवत् यगणांदिष्वपि - एकैकवृद्धया अर्णादिदण्डकव्यवस्थां पूर्वोक्तामुदाहतुमपि अतिदिशति - एकैकगणवृद्धया च अर्णार्णवेत्यादि । रगणवद्यगणादीनपि एकोन सहस्राक्षरपादं यावद्वर्धयित्वा तेषामपि यथारुचि अर्ण - अर्णव इत्यादि नामभिः प्रत्याय्य तेषामप्युदाहरणानि समूह्यानीति भावः ॥ अ० २, सू० ३६०।१ ।। लोर्यथेष्टं राश्चण्डकालः ॥३९१|| लघुप कात्परे यच्छया क्रियमाणा रगणाश्चण्डकालः । यथा- विविधमणिमेखलाश्रेणिविश्राणितश्रीणि हित्वा पुराण्याशु चान्तः पुराण्युच्चकैः, करटितुरगादिसेनासहस्राणि च स्वीकृत च्छद्मकर्मन्दिवेषास्त्वदीयद्विषः । प्रतिदिशममी गिरीणां महाकन्दराः शाखिगुल्मानि कूलंकषा कूलरन्ध्राणि च स्फुरति
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy