________________
३४९
[अ० २, सू०-३८८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते यमुनाया नील जलमपि श्वेतमभूत् सर्वे समुद्राः क्षीरोदधयो जाताः सर्वे सर्पाः शेषनाग इव बभूवुः कञ्चगिरिः कैलासवर्णोऽभवत् इन्द्र नील मणिः मुक्तासादृश्यं गत इति भावः । अ [1] म [1] र [1] प [1] ति [1] क [1] र [s] भ्र [1] में [s] बि [s] भ्र [1] ती [s] भाः [s] स [1] म [s] ग्राः [5] क [1] लं [s] कः [5] क [1] ला [s] वि [5] भ्र [1] मं [s] धा [s] य [s] त्रि [1] ने [s] त्र [5] प्र [1] सू [5] त [5] स्य [0] कृ [s] ष्णो [s] व [1] ह [5] त्य [s] न्ध [1] क [s] ध्वं [s] स [0] क [s] तु [5] स्तु [1] लाम् [s] इति लक्षणसमन्वयः ॥ अ० २, सू० ३८८७ ॥ इत्थं सूत्रोक्ता अर्णादयः शङ्खान्ता दण्डका वर्णिताः। सूत्रे च 'शङ्खादय' इति आदिपदम् उपात्तं तेन केषां संग्रह इत्याह- आदिशब्दात्पञ्चदशभिः समुद्रइत्यादिना। अयमर्थः नगणद्वयात्परत: अष्टरगणेभ्य आरभ्य चतुर्दश रगणपर्यन्तं ये दण्डकास्ते- शङ्खात्रनामभिरुक्ताः ततः परमपि- एकंकरगणवृद्धया दण्डक भेदा भवन्ति, तेषां नामानि च यथेष्टं बुधः कल्पितानि- अन्यरपि कल्पनीयानि । तेषु- यथा- नगणद्वयात्परतः पञ्चदशभीरगणः कृता: पादा यस्य स समुद्रनामा दण्डकः, नगणद्वयात्परत: षोडशभीरगणैः कृताः पादा यस्य स भुजंगनामा दण्डक इति, अस्माभिः नाम कल्पयित्वा कथितं तथा कल्पनीयम् । तदुदाहरणानि च ऊह्यानि । किमस्य विधेः कचिद्विरामोऽस्ति न वा ? अस्ति चेत्कियदवधिरित्याशङ्कायामाह-यावदेकोनसहस्राक्षरैः पाद इति । एकोन सहस्राक्षरात्मकः पादो दण्डक कल्पनाया अवधिरिति भावः । पिङ्गलाचार्येण तु चण्डवृष्टिप्रपातादग्रे- एकैकर वृद्धया कल्पिता: सर्वेऽपि दण्डकाः प्रचितसंज्ञका एव । तवृतिकृता हलायुधेन च- यथेष्टं नामकल्पनाऽप्यनुमता। तथाहि तदीयः श्लोक:- "प्रथमकथितदण्डकश्चण्डवृष्टिप्रपाताभिधानो मुने: पिङ्गलाचार्यनाम्नो मतः प्रचित इति ततः पर दण्डकानामियं जातिरेकैकरेकाभिवृद्धया यथेष्टं भवेत् । स्वरुचिरचितविशेषरशेषः पुनः काव्यमन्येऽपि कुर्वन्तु वागीश्वराः भवति यदि समान संख्याक्षरैःयत्र पादव्यवस्था ततो दण्डकः पूज्यतेऽसौ जनैः ॥ इति ॥ 'शेषः प्रचितः' (पि. छ. शा. ६।३६ ) इति सूत्रव्याख्यायांमिदमुक्तम्, तस्यायं भावः, नगणद्वयात्परतः सप्तभीरगणः चण्डवृष्टिप्रपाताभिधो दण्डक: कथितः ततः परमेक