________________
३४८
सवृत्तिच्छन्दोऽनुशासनप्रद्योते [अ०२सू० - ३८८.]
सं [s] दो [s] ह [1] वि [s] क्षे [s] प [1] णा [s] दु [s] दि [1] ना [s] ड [5] म्ब [1] रं [s] इति लक्षणसमन्वयः ।। अ० २, सू० ३८८.६ ।।
अथ नगणद्वयात्परतः चतुर्दशभीरगणैः कृतपादं शङ्खनामानं दण्डकमुदाहर्तुं - मवतारयति - चतुर्दशभिः शङ्खः इति । नगणद्वयं चतुर्दश रगणाः '|||. ||. SIS. SIS. SIS SIS. SIS. SIS. SIS SIS- SIS. SIS SIS. SIS. SIS. SIS'ûtदृशैरष्टाचत्वारिशता अक्षरैः कृताः पादा यस्य स शङ्खनामा दण्डक इत्यर्थः । तदुदाहरणमाह- यथा - अमरपति करोति । शासनैश्वर्यवज्रायुध ! शासनं निग्रहानुग्रहौ - ऐश्वर्यमकुण्ठिताज्ञत्वं ताभ्यां वज्रायुध इन्द्रसदृश ! महीपालचूडामणे ! राजशिरोमणे ! विचकिल - हरहास - नीहार-हारेन्दुशङ्खावदातैः विचकिल मतिश्वेत पुष्पविशेषः मदनापरपर्यायः, हरहासः शिवाट्टहासः श्वेतेषु प्रसिद्धः नीहारः हिमम् हार। मौलिकमाल्यम्, ईन्दुः चन्द्रः शङ्खः कम्पुः- एतानीव अवदाताः निर्मलाः तैः, अमोभिः प्रख्यातं स्फुरद्भिः सर्वत्र प्रसृमरैः त्वद्यशोराशिभिः तवकीर्तिव्रातैः समग्राः अशेषाः इभाः हस्तिनः अमरपतिकरिविभ्रमं अमरपतिकरिणः इन्द्वगजस्थैरावतस्य भ्रमं सन्देहे विभ्रति धारयन्ति, अभिनेत्रप्रसूतस्य अत्रिनेत्रात् तन्नामक ऋषिनयनान् प्रसूतस्य उत्पन्नस्य चन्द्रस्य कलङ्कः लाञ्छनं कलाविभ्रमं कलाया: षोडशांशलेखायाः विभ्रमं विलासं धारयति, कृष्णः केशवः अन्धकध्वंसक ' अन्धकासुरनाशकस्य शिवस्य तुलां साम्यं वहति धारयति, कुवलयवनं नीलोत्पत्रमृदं पौण्डरीकीं श्वेतकमल सम्बन्धिनीं श्रियं शोभाम् आप्नोति प्रकाशयति कलिन्दात्मजा कालिन्दी-यमुना जह्नकन्योज्ज्वलं जह्रुकन्या गङ्गा तस्या इव उज्ज्वलं श्वेतं वारि जलं धत्ते धारयति, अञ्जनाद्रिः कज्जलपर्वतः च कैलासपृथ्वीभृतः कैलासपर्वतस्य विलासं लीलां धत्ते तद्वर्णो भवति, लवणोदधिः क्षारसमुद्रः क्षीरपाथोधिललायितं दुग्धोदधि बिलास कलयति धारयति, अशेषाहयः सर्वे सर्वाः शेषशोभाम् शेषनाग - कान्ति प्राप्नुवन्ति, इन्द्रनीलाः इन्द्रनील मणयः च मुक्तामणीनां मौक्तिकानां त्विषं कान्ति समासादयन्ति । अतिस्वच्छतरैः सर्वता व्याप्तैस्त्वद्यशोभिः सर्वं श्वेत कृतमिति सर्वे गजा ऐरावत निभाः जाताः चन्द्रकलङ्कोऽपि तदीय कला विशेषतां गतः कृष्णः शिववच्छ्वेतोऽभूत्, नील कमलं श्वेतोत्पलतां गतम्,
"
"