SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ ३४२ स वृत्तिच्छन्दोऽनुसाशन प्रद्योते [अ०२, सू० ३८८. ] केदार - आसार-सत्कार- संस्कार- माकन्द - गोविन्द - सानन्द - सन्दोह - आनन्द्र- इत्येते आदि पदे ग्राह्या इति तर्कवाचस्पतिः । स्वमते च समुद्र - भुजंगादय: आदिपदेन गृह्यन्ते इति वक्ष्यति । इत्थं प्रथमं प्रभेदं वर्णयति - तत्र - नगणाभ्यां परंरभी रगणैरिति । तथा च नगणद्वयम् - रगणाष्टकम् ' 111. 111 515. SIS. SIS. Sis. sis. sIS SIS SIS. ' इतीदृशैर्वर्णेः कृताः पादा यस्य तत् अर्णनामक दण्ड जातिच्छन्द इत्यर्थः । तथा चोदाहरति यथा- अविरलेति । अविरल गुरुशाखिनः अविरलाः घनाः गुरवः महान्तश्च शाखिनो वृक्षा यत्र तादृशान् अरण्यभागान् वनप्रदेशान् समुत्तुङ्गशृङ्गावलीशालिनः समुत्तुङ्गाभि: अत्युन्नताभिः शृङ्गावलीभि; शेखरसमूहैः शालन्ते शोभन्ते इति तान् सर्वभूमीभृतः सर्वान् पर्वतान्, विपुलतरतरंङ्गससङ्गिनी: विपुलतरैः महामहद्भिस्तरङ्गः ऊर्मिभिः संसङ्गः संपर्को यासां तथा भूताः कूलिनी: तटिनी (नदी) उच्छ्रितानेकसौधान् उच्छ्रिताः उन्नता अनेके सौधा: प्रासादा येषु तान्- पुरग्रामदेशान् नगर ग्रामभागान् अपि स्थगयति आच्छादयति, सपत्नत्वं शत्रुत्वं प्रपत्रे प्राप्ते तमसि अन्धकारे सति, उन्मुक्त'धेयस्य त्यक्तघृतेः पाथोनिधेः समुद्रस्य, ( एवं सर्वान् व्याप्नुवदि नमो यामपि व्याप्स्यतीति शङ्कितस्य) मंक्षु शीघ्रं कुपित इव कृतक्रोध इव रज्यद्वपुः रक्तवर्णशरीरः समुद्यत्करः समुद्यन्तः समुदयः प्राप्नुवन्तः करा: किरणा यस्य तादृशः, तस्य तमसः संहारकारी विनाशकृत् निशावल्लभः चन्द्रः तदर्णसः समुद्रजलमध्यात् प्रोद्ययौ निः सृतः । वनपर्वतनगर ग्रामादिषु सर्वत्र तमसाच्छन्नेषु भीतं समुद्रमालोक्य तम सः संहाराय समुद्रजलादेव चन्द्रो बहिरगत इति भावः । अ [1] वि [1] र [1] ल [1] गु [1] रु [1] शा [5] खि [1] नो [5] र [5] ण्य [1] भा [s] गान् [s] स [1] मुं [s] तु [5] ङ्ग [1] शू [S] ङ्गा [s] व [1] ली [s] शा [s] लि [1] न: [s] स [s] [1] भू [S] मी [s] भृ [1] तः [s] इति लक्षणसमन्वयः ॥ अ० सू० ३८८।१ ।। अतः परं नवभीरगणैः कृतपादमर्णवमुदाहर्तुं माह- नवभिरर्णवः इति । तथा च नगणद्वयात्परतः नव रगणाः ।।1. 111. SIS. SIS. sis sis sis. sts. SIS. SIS. SIS' इतीहरौरक्षरः कृताः पादा यस्य सोर्णवनामा दण्डक इत्यर्थः ।
SR No.023450
Book TitleChandonushasan
Original Sutra AuthorN/A
AuthorVijaylavanyasuri, Vijaysushilsuri
PublisherGyanopasak Samiti
Publication Year1969
Total Pages460
LanguageSanskrit, Hindi
ClassificationBook_Devnagari
File Size29 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy