________________
[अ० २, सू०-३८८.] सवृत्तिच्छन्दोऽनुशासनप्रद्योते ३४१ वषत् । अयि तव विरहे यवस्या मृगाक्ष्या झवन्नामधेयाक्षरोचारमय कर. भाजुषः सांप्रतं सर्वमेवामजद् व्यत्ययं, तदतिसुभग सान्द्रपीयूषलीलाकरस्तबचोमिः समाश्वासयनां चिरायान्यथा तु त्वमेवात्र निःशूकचूडामणिः ॥३८८.५॥ - त्रयोदशभिरुद्दामः । यथा- वलयितवरकन्धरं वल्गदुत्तुङ्गतेजस्विगन्धर्वराजीखुरक्षुण्णविश्वंभराक्षोदसंदोहविक्षेपणादुर्दिनाउम्बरं, प्रथममपि निरीक्ष्य सप्रेमकान्तामुखाम्भोरुहालोकने स क्षणं कौतुकी नष्टुकामोऽपि यावद्भवत् त्युन्मनास्त्वद्विपक्षवजः । नृप तव सहसा जयश्रीविलासैकधामाभ्रमातङ्ग-संस्पघिनोऽभ्रंकर्षविग्रहर्मोषणाः क्षोभयन्तो जगजितजितः, उतमदजलनिझरे
वस्तधूलीवितानाः कृतान्ता इवोद्दामगन्धद्विपास्तावदाविर्भवन्तश्विरान्मूर्छयामासुरेनं विभो ॥३८८ ६॥ ...
चतुर्दशभिः शङ्खः । यथा- अमरपतिकरिभ्रमं बिभ्रतीमाः समग्राः कलङ्गः कलाविभ्रमं धारयत्यत्रिनेत्रप्रसूतस्य कृष्णो बहत्यन्धकध्वंसकर्तुतुलां, कुवलयवनमातनोति धियं पौण्डरीकी कलिन्दात्मजा जलकन्योज्ज्वलं बारि पत्ते विधत्तेऽअनाद्रिविलासं च कैलासपृथ्वीभृतः । कलयति लवणोदधिः क्षीरपायो. धिलीलायितं शेषशोभामशेषाहयः प्राप्नुवन्तीन्द्वनीलाश्च मुक्तामणीनां समासादयन्ति त्विषं, विचकिलहरहासनीहारहारेन्दुशङ्कावदातरमीमिः स्फुरद्धिमहीपालचूडामणे शासनश्वर्यवज्रायुध त्वद्यशोराशिमिः ॥३८८.७॥
आदिशब्दात् पञ्चदशभिः समुद्रः षोडशभिर्भुजंग इत्येवमादयो यथेष्टकृतनामानो यावदेकोनसहस्राक्षरः पारस्तावद्भवन्ति ॥३८८.७॥
यथा पूर्वमुक्तादिजातिच्छन्दःसु एकैकाक्षरवृद्धया जातिभेदा उक्ताः तथाऽत्रापि एककगणवृद्धया छन्दोभेदावर्ण्यन्ते- यथोत्तरमेकैकरवृद्धाः अर्णाणवन्यालजोभूतलीला करोद्दाम शङ्खादय इति । विवृणोति चण्डवृष्टेरूवमेकैकरगणवृद्धाः क्रमेणार्णादयो दण्डकाः इति । नगणद्वयं सप्तरगणाः इति चण्डवृष्टिपादन्यास उक्तस्तत्रकै करगणवृद्धौ कृतायाम्- अर्णः, अर्णवः, व्यालः, जीमूतः, लीलाकरः, उद्दामः शङ्ख इत्येवमादयोदण्डका भवन्ति इत्थं च नगणद्वयात्परत: चतुर्दशरगणपर्यन्तं नामान्युक्तानि । ततः परमपि रगणवृद्धो आराम-संग्राम-सुराम-वैकुण्ठ-सारकासार-विसार-संहार-नीहार-मंदार